________________
अधिकार: ]
स्वोपज्ञव्याख्यामुनिचन्द्रीय विवरणयुतम्
(मूलम् )
एतदपि मनोरथमात्रम्, विकल्पानुपपत्तेः । तद्धि यदाऽभीष्टसहकारिसन्निधौ कार्यं जनयति तदाऽस्यानन्तरोदित सहकार्यपेक्षालक्षणः स्वभावो निवर्तते न वेति वाच्यम् । यदि निवर्ततेऽनित्यत्वप्रसङ्गः, ५ स्वभावनिवृत्तौ स्वभाविनोऽपि तदव्यतिरेकेण तद्वदेव निवृत्तेः ।
९९
अथ न निवर्तते, कार्याजननप्रसङ्गः, तत्स्वभावानिवृत्तेः, पूर्ववत् । तथाहि - य एव तस्य कार्याजननकाले खभावः, जननकालेsपि स एव; इति कथं जनयति कथं वा न पूर्वमपीति चिन्त्यम् ॥
तेन सह जननस्वभावत्वात् तद्भावे जनयति, तदभावाच न पूर्व - १० मपीति चेत्, न, अविचारितरमणीयत्वात् । तेन सह तज्जननस्वभावत्वस्यापि नित्यत्वे सति सदा तज्जननप्रसङ्गात्, अन्यथाsधि
( खो० व्या० )
आलोकादि कार्यं जनयति विज्ञानादिकमिति । एतदाशङ्कयाह-एतदपि मनोरथमात्रम् | कुत इत्याह-विकल्पानुपपत्तेः । एनामेवाह तद्धीत्यादिना । तत्- १५ वस्तु यस्माद् यदाऽभीष्टसहकारिसन्निधौ कार्य जनयति विज्ञानादि, तदाऽस्य - वस्तुनोऽनन्तरोदितसहकार्यपेक्षालक्षणः - अकिञ्चित्करसहकार्य - पेक्षालक्षणः स्वभावः-धर्मो निवर्तते न वेति वाच्यम्। उभयथाऽपि दोषमाहयदि निवर्ततेऽधिकृतखभावस्ततः किमित्याह- अनित्यत्वप्रसङ्गः । कुत इत्याहस्वभाव निवृत्तौ सत्यां स्वभाविनोऽपि धर्मिणः तदव्यतिरेकेण - स्वभावा- २० भेदेन हेतुना तद्वदेव - स्वभाववदेव निवृत्तेः कारणात् ॥
-
अथ न निवर्तते स स्वभावः । अत्राह - कार्याजननप्रसङ्गः । कथमित्याहतत्स्वभावानिवृत्तेः - अकिञ्चित्करसहकार्यपेक्षालक्षणस्वभावानिवृत्तेः । पूर्ववदिति दृष्टान्तः । एतदेव भावयति तथाहीत्यादिना । तथाहि य एव तस्य - वस्तुनः कार्याजननकाले खभावो जननकालेऽपि स एव सर्वदा स्वस्वभावा - २५ निवृत्तेः । इति - एवं कथं जनयति कार्यं तदा कथं वा न पूर्वमपि जनयति स्वभावाभेदादिति भाव इति - एवं चिन्त्यम् ||
आह- तेन - सहकारिणा सह जननस्वभावत्वात् कारणात् तद्भावे -सहकारिभावे जनयति तदा तदभावाच्च -सहकार्यभावाच्च न पूर्वमपि जनयति । इति वेत्, एतदाशङ्कयाह-न, अविचारितरमणीयत्वात् । एतदेव दर्शयति तेने - ३० त्यादिना । तेन - सहकारिणा सह तज्जननस्वभावत्वस्यापि - कार्यजननस्वभाव१ 'भावस्यापि कार्य ०' इति ङ-पाठः ।