________________
'द्वितीयोऽधिकारः।
(मूलम् ) यचोक्तम्-एतेन नित्यानित्यमपि प्रत्युक्तमवगन्तव्यम् , विरोधादेव' इत्यादि, तदपि न सम्यक् , प्रमाणतस्तथाऽवगमात् । तथाहि५ अध्यक्षेण नित्यानित्यमेव तदवगम्यते; अन्यथा तदवगमाभावप्र
सङ्गात् । तथा च यदि तदप्रच्युतानुत्पन्नस्थिरैकस्वभावं सर्वथा नित्यमभ्युपगम्यते, एवं तर्हि तद् विज्ञानजननखभावं वा स्यात्, अजननवभावं वा । 'यद्याद्यः पक्षः, एवं सति सर्वत्र सर्वदा सर्वेषां तद्विज्ञानप्रसङ्गः, तस्यैकखभावत्वात् । न चैतदेवं कचित् कदाचित् १० कस्यचिदेव तद्विज्ञानभावात् ॥ ... न च सर्वथैकखभावस्य देशादिकृतो विशेष इति कल्पना
(खो० व्या०) अधिकारान्तरमधिकृत्याह-यच्चोक्तमित्यादि । यचोक्तं' पूर्वपक्षग्रन्थे 'एतेन नित्यानित्यमपि प्रतिक्षिप्तमवगन्तव्यम्, विरोधादेव' इत्यादि तदपि १५ न सम्यक् । कुत इत्याह-प्रमाणतस्तथाऽवगमात् । तथेति नित्यानित्यप्र
कारेणावगमात् । एतदेव भावयति तथाहीत्यादिना । तथाहि अध्यक्षेण नित्या१. नित्यमेव तत्-वस्तु अवगम्यते; अन्यथा-एवमनभ्युपगमे तदवगमाभाव
प्रसङ्गात् । एतद्भावनायाह-तथा चेत्यादि । तथा च यदि तत्-वस्तु 'अप्रच्युतानुत्पन्नस्थिरैकखभावम्' इति पूर्ववत् । अनेन प्रकारेण सर्वथा नित्य२० मभ्युपगम्यते, एवं तर्हि तत्-वस्तु विज्ञानजननखभावं वा स्यात्,
अजननखभावं वा। किञ्चातः ? । यद्याद्या पक्षा-विज्ञानजननस्वभावमित्ययम् , एवं सति सर्वत्र क्षेत्रे सर्वदा काले सर्वेषां प्रमाणां तद्विज्ञानप्रसङ्ग:-अधिकृतवस्तुविज्ञानप्राप्तिः । कुत इत्साह-तस्यैकस्वभावत्वात् , क्षेत्रादिभिर्विशेषानाधानादित्यर्थः । न चैतदेवं-यथोक्तम् । कुत इत्याह-चित् क्षेत्रे २५ कदाचित् काले कस्यचिदेव प्रमातुः तद्विज्ञान भावात् तस्मिन्-वस्तुनि विज्ञानभावात् ॥
प्रकृतमेव समर्थयते न चेत्यादिना। न च सर्वथैकखभावस्य वस्तुनो देशा१ 'अहम् अथ द्वितीयः परिच्छेदः' इति घ-पाठः। २ सप्तदशे पृष्ठे । ३ सन्तुल्यतां यदुक्तं सप्तदशे पृष्ठे । ४ 'यद्याद्यपक्षः' इति क-पाठः । ५ सप्तदशे पृष्ठे। ६ प्रेक्ष्यतां सप्तदशं पृष्ठम् । ७ 'कनिदेव क्षेत्रे' इति ऊ-पाठः । ८ 'न चेत्यादिना' इति पाठो छ-प्रतो नास्ति। . .