________________
अधिकारः] खोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
__ (मूलम्) अथानन्यत्वं तयोः, तद्व्यवस्थाऽयोगः अन्योन्यात्मकत्वेनेतरनिराकरणात्। अनिराकरणेऽपि सदसत्त्वयोरेकत्वेन तद् यथा खरूपेण सत्, एवं पररूपेणापि स्यादित्याद्युक्तम् । असम्भविनौ च निराधारौ ५ धर्माविति यत्किञ्चिदेतत् ॥ __ अथान्यानन्यस्वम्, अतोऽनेकान्तवादाभ्युपगमादेकान्तवादिनः खमतविरोध इत्यलं प्रसङ्गेन ॥
इति प्रथमोऽधिकारः।
(खो० व्या०) अथेत्यादि । अथ अनन्यत्वं तयोः-धर्मधर्मिणोः । अत्राह-तव्यवस्थाsयोगः-धर्मिधर्मव्यवस्थाऽयोगः। कथमित्याह-अन्योन्यात्मकत्वेन हेतुना इतरनिराकरणात्-द्वितीयनिराकरणात् । तथाहि-यदि धर्मिणोऽव्यतिरिक्ता धर्मास्ततो धर्ममात्रं ते, तदव्यतिरिक्तत्वात् , तत्स्वरूपवदिति न सन्त्येव धर्मा इतीतरनिराकरणम् । एवं धर्मिणोऽपि वाच्यम्-धर्माव्यतिरेकादिति धर्मधर्मिव्यवस्थाऽयोगः । अनिरा-१५ करणेऽपि इतरस्य । किमित्याह-सदसत्त्वयोरेकत्वेन एकधर्म्यव्यतिरेकद्वारायातेन हेतुना। किमित्याह-तत्-वस्तु यथा स्वरूपेण सदेवं पररूपेणापि स्यात् , सदसत्त्वयोरेकत्वादित्यर्थः । इत्याद्युक्तं प्राक् धर्माव्यतिरेकाद् धर्मिण एवासत्त्वं भविष्यतीत्यप्याशङ्कयाह-असम्भविनौ च निराधारौ धौ सदसल्लक्षणौ न स्त एव इति यत्किञ्चिदेतत् ॥
अथान्यानन्यत्वं धर्मधर्मिणोः, अतोऽनेकान्तवादाभ्युपगमात् कारणात् एकान्तवादिनः खमतविरोध इत्यलं प्रसङ्गेन ॥
समाप्तः 'सदसद्रूपवस्तुवक्तव्यता'ऽधिकारः ॥
१'अतो नैकान्त०' इति क-पाठः। २ 'प्रथमः परिच्छेदः' इति क-घ-पाठः । ३ 'समाप्तः ॥छ ॥ सद.' इति -पाठः।