________________
अनेकान्तजयपताकाख्यं प्रकरणम् [प्रथमः
(मूलम्) रिक्ततरविकल्पदोषाशनिरनिवारितप्रसरः। स इहप्रत्ययगम्य इति
चेत्, न, तस्येहसमवायिषु समवाय इति व्यभिचारोपलब्धेः। ५ प्रतिनियतधर्मिधर्मखभावस्तत्सम्बन्ध इति चेत्, न, तत्स्वभावस्यापि धर्मत्वाद् धर्माद्यात्मभूतत्वानुपपत्तितो वामात्रत्वात्, आत्मभूतत्वे च भेदाभ्युपगमविरोधः ॥
(स्त्रो० व्या०) च तत् स्वभावद्वयं चेति विग्रहः, तस्य अङ्गीकरणे च-अभ्युपगमे च । किमित्याह३० ततः-समवायात् तस्य-वसमवायिसम्बन्धकस्वभावद्वयस्य व्यतिरिक्ततरविकल्पदोषाश निरनिवारितप्रसरः। तथाहि-यदि तत् ततः स्वभावद्वयसमवायात् व्यतिरिक्तं तस्येति कः सम्बन्धः? । अथाव्यतिरिक्तमेकत्वमस्साधिकृतस्वभावद्वयस्य एकस्मात् समवायादव्यतिरिक्तत्वात् , तत्स्वरूपवत्, अनेकत्वं
वा समवायस्याधिकृतस्वभावद्वयादव्यतिरिक्तत्वात् तत्स्वरूपवदेवेति । स इह१५ प्रत्ययगम्य इति चेत् सः-समवायः, इहप्रत्ययगम्यो वर्तते, यथोक्तम्
"अयुतसिद्धानामाधार्याधारभूतानां यः सम्बन्धः इहप्रत्य यहेतुः समवायः, भवति चायमिहेत्यविगानेन प्रत्यय इह तन्तुषु पट इत्यादौ न चायमनिमित्तः, सदाभावादिप्रसङ्गात्, न च समवायिनिमित्तः, अतत्परिच्छेदकत्वात् , अतो यन्निमित्तोऽयं स
समवायः" इति। एतदाशङ्याह-न तस्येत्यादि । न-नैतदेवं तस्य-इहप्रत्ययस्य इह२० समवायिषु समवाय इति-एवं व्यभिचारोपलब्धेः। तथा च भवत्यत्रापीहप्रत्ययः, न च तदपरसमवायनिबन्धनः, तस्याभावात् विवक्षितसमवायस्य चात्र समवायिकल्पत्वात् समवायिबुद्ध्यैव ग्रहणात् तस्यैव प्रत्ययान्तरनिमित्तत्वेऽतिप्रसङ्ग इति भावनीयमेतत् । प्रतिनियतेत्यादि । प्रतिनियतधर्मिधर्मखभावः स एव धर्मी तद्धर्मी तद्धर्मधर्मिस्वभावः, त एव च धर्मास्तद्धर्मिधर्मस्वभावा इत्येवम्भूतः २५ तत्सम्बन्धः-धर्मधर्मिणोः सम्बन्धः । इति चेत्, एतदाशङ्कयाह-नेत्यादि । ननैतदेवम् । तत्स्वभावस्थापि-अनन्तरोदितधर्मिधर्मस्वभावस्यापि । किमित्याहधर्मत्वात् कारणात् धर्माद्यात्मभूतत्वानुपपत्तितः "अन्ये धर्मा धर्मिणः" इत्यभ्युपगमेन वामात्रत्वात् । 'आदि'शब्दाद् धर्मिपरिग्रहः । आत्मभूतत्वे
च अधिकृतखभावस्य, धर्मादेरिति प्रक्रमः । किमित्याह-भेदाभ्युपगमविरोधः ३० धर्मधर्मिणोर्भेद इति योऽभ्युपगमस्तद्विरोधः, धर्माणां च धर्मान्तरप्राप्तिरित्यस्योपलक्षणमेतत् , एवमप्यभ्युपगमविरोधादिति ॥
१ 'तत् ततो व्यतिरिक्तं तस्येति' इति घ-पाठः, 'तत् ततो (तः) स्वभावद्वयसमवायात् तत् ततो व्यतिरिक्तं' इति तु ङ-पाठः ।