________________
अधिकारः] स्वोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम्) एवं धर्माणामपि वस्तुव्यतिरिक्तत्वात् खरूपेण सत्त्वं पररूपेण चासत्त्वमिति धर्मान्तरप्राप्तिः । तत्राप्ययमेव न्याय इत्यनिष्टा । स्थादेतत् न धर्माणां धर्मान्तरमिष्यते, अपि तु त एव स्वरूपेण ५ सन्ति, पररूपेण च न सन्तीति न तद्विलक्षणे सदसत्त्वे इति । एतदप्यसमीचीनम् , वस्तुन्यपि समानत्वात् । अङ्गीकरणे च धर्माभावप्रसङ्गेनाभ्युपगमविरोधात्, तद्भावेऽपि तस्येति सम्बन्धानुपपत्तेः। समवायभावात् कथमनुपपत्तिरिति चेत्, न, तस्यासिद्धत्वात् पदार्थान्तरत्वेन समवायिकल्पत्वात् , अन्यसमवायव्यतिरेकेण तत्-१० सम्बन्धानुपपत्तेः। अभ्युपगमे च तत्राप्ययमेव वृत्तान्त इत्यनवस्था।खसमवायिसम्बन्धकस्वभावयाङ्गीकरणे च ततस्तस्य व्यति
(स्वो० व्या०) एवं धर्माणामपि-प्रस्तुतानां वस्तुव्यतिरिक्तत्वात् कारणात् खरूपेण सत्त्वमिति पररूपेण चासत्त्वमिति कृत्वा धर्मान्तरप्राप्तिः। तत्रापि-१५ धर्मान्तरे अयमेव न्याय इत्यनिष्टा । स्यादेतत् न धर्माणां धर्मान्तरमिष्यते, अपितुत एव-धर्माःस्वरूपेण सन्ति,पररूपेण च नसन्ति । इतिएवं न तद्विलक्षणे सदसत्त्वे, अतो न धर्माणां धर्मान्तरप्राप्तिरित्यभिप्राय इति । एतदप्यसमीचीनम्-अशोभनम् । कुत इत्याह-वस्तुन्यपि समानत्वात् । तथाहि-तदेव स्वरूपेण सत् पररूपेण चासदित्यपि वक्तुं शक्यत एव । २० अङ्गीकरणे च अस्य पक्षस्य धर्माभावप्रसङ्गेन हेतुना अभ्युपगमविरोधात्। तद्भावेऽपि व्यतिरिक्तधर्मभावेऽपि तस्येति सम्बन्धानुपपत्तेः तस्य-वस्तुनः एते धर्मा इति सम्बन्धासिद्धेः, वस्त्वन्तरेण भेदाविशेषादित्यर्थः । समवायभावात् कारणात् कथमनुपपत्तिः तस्येति सम्बन्धस्य । इति चेत्, एतदाशय आह-न, तस्यासिद्धत्वात्। तस्येति समवायस्य । असिद्धत्वं च पदार्थान्तरत्वेन २५ समवायिकल्पत्वात् प्रस्तुतसमवायस्य । ततः किमित्याह-अन्धसमवायव्यतिरेकेण तत्सम्बन्धानुपपत्तेः तस्य-मूलसमवायस्य समवायिभिः सम्बन्धानुपपत्तेः । अभ्युपगमे च अन्यसमवायस्य तत्राप्ययमेव वृत्तान्तः-अन्यसमवायापत्तिलक्षण इत्यनवस्था । स हि खसम्बन्धकस्वभावः समवायिसम्बन्धकखभावश्चेत्यतो न दोष इति पराभिप्रायं चेतसि निधायाह-खसमवायीत्यादि । ३० खश्च समवायात्मा, समवायिनौ च धर्मधर्मिणौ, स्वसमवायिनः तेषां सम्बन्धक
१ 'रूपेणासत्त्व' इति ग-पाठः। २ 'द्वयीं अङ्गी.' इति क-पाठः। ३ 'वाऽसत्त्व.' इति उ-पाठः। ४ 'वाऽसदित्यपि' इति क-पाठः। ५ 'शक्यत इत्याह अङ्गी.' इति क-पाठः । ६ 'धर्माभावेऽपि' इति घ-पाठः।