________________
अनेकान्तजयपताकाख्यं प्रकरणम्
[प्रथमा (मूलम्) किं तदन्यदतोऽतिरिक्तम् । तथाविधबुद्धिग्राह्यमिति चेत्, तत्रापि
बुद्धिरिति न्यायातीतमेतत् । तथाहि-तन्न सन्नासन्न सदसद् बुद्धि५ गोचरश्चेत्यद्भुतमेतत् । खकार्यसत्त्वाभ्युपगमे च व्यर्थाऽपरयोग
कल्पना, नियतरूपतादितया च खपररूपसत्त्वासस्वदोषोऽनिवारितप्रसर एवेति यत्किञ्चिदेतत् ॥
(स्वो० व्या०) किं तदन्यत् वस्तु अतोऽतिरिक्तं सदसतः ? । तथाविधबुद्धिग्राथमिति "चेत्, तथाविधा-अव्यपदेश्या । एतदाशक्याह-तत्रापि-त्रिकोटीशून्ये बुद्धिरिति न्यायातीतमेतत् । एतदेवाह तथाहीत्यादिना । तथाहि तत्-वस्तु न सन्नासन्न सदसत् त्रिकोटीशून्यं बुद्धिगोचरश्चेत्यद्भुतमेतत्, कर्मशक्त्यभावे विषयत्वायोगादित्यर्थः । खकार्यसत्त्वापेक्षया सदेव तदित्याशङ्कानिरासार्थमाह
खकार्यसत्त्वाभ्युपगमे च वस्तुनो व्यर्थाऽपरयोगकल्पना-सदन्तरयोग१५ कल्पना नियतरूपादितया च कारणेन वस्तुधर्माणां खपररूपसत्त्वासत्यदोषोऽनिवारितप्रसर एव, धर्मान्यत्वे वस्तुनस्तद्रप्रेणासत्त्वात्, इति एवं यत्किञ्चिदेतत् परोदितम् ॥
(विवरणम्) (१२) कर्मशक्त्यभाव इति । कर्मणः-ज्ञानादिक्रियाविषयस्य वस्तुनः सामर्थ्य २० तस्याभावे ॥
(१५) नियतरूपादितया च कारणेन वस्तुधर्माणामिति । वस्तुधर्माणांवस्तुस्वरूपाणाम् । अयमत्राभिप्रायः-सत्वासत्त्वाभ्यां भिन्नमपि स्वकार्यसत्त्वं धर्मिखशरीरलक्षणमभ्युपगम्यमानं नियमात्-नियमेनैकेन केनचिद्रूपेणास्ति । ततश्च (१५) स्वपररूपसत्त्वासत्त्वदोषोऽनिवारितप्रसर एव । अत्रैव हेतुमाह-(१६) धर्मान्यत्वे २५वस्तुनस्तद्रपेणासत्त्वादिति । धर्मान्यत्वे सत्त्वासत्त्वलक्षणधर्मविभिन्नत्वे सति वस्तुनः स्वकार्यसत्त्वलक्षणस्य तद्रूपेण विभिन्नधर्मस्वभावलक्षणेनासत्त्वात्-अविद्यमानत्वात् । एवं च धर्मिखभावत्वं धर्मासत्त्वभावमापन्न मिति ॥ इति श्रीमुनिचन्द्रसरिविरचिते अनेकान्तजयपताकोद्योतदीपिका
टिप्पणके सदसदधिकारः समाप्तः ॥
१'तदन्यदन्यतोऽति०' इति उ-पाठः। २ 'यतोऽति.' इति घ-पाठः । ३ 'अव्यपदेशा' इति क-पाठः । ४ 'धर्मवशरीर.' इति क-पाठः। ५ 'सत्त्वादिति धर्मान्यत्वे सत्त्वलक्षणे धर्मविभिन्नत्वे सति' इति क-पाठः । ६ 'खकायखवलक्षणतद्रूपेण इति च-पाठः। ७'धर्मखभाव.' इति च-पाठः। ८ 'टिप्पनके' इति च-पाठः ।