________________
अधिकार: ]
स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम् )
व्यतिरिक्तं तच्च खरूपेण सत् पररूपेण चासदित्यभ्युपगमाद् धर्माणां च परत्वात् तद्रूपेणासत्त्वादवस्तुत्वप्रसङ्गः ॥
न च तन्न प्रक्रान्तधर्मव्यतिरिक्तमपि स्वरूपेण सत् पररूपेण ५ चासत्, अत्यन्ताभावप्रसङ्गादित्युक्तदोषापत्तिरेव । नापत्तिः, तस्य यथोदितत्वानुपपत्तेः । अथ कीदृक् तदिति कथनीयम् । अव्यपदेशाहमिति चेत्, न, स्ववचन विरोधात्, अधिकृतव्यपदेशेन व्यपदेशात्; अन्यथाऽव्यपदेशार्हमिति शब्दाप्रवृत्तेः । सच्छन्दादिव्यपदेशार्ह न भवतीति चेत्, किमत्र क्षुण्णमिति वाच्यम्, यतो न तत् सन्नाप्य - १० सदिति चेत्, सदसत् तर्हि नियमतः । एतदपि नैव तत्वत इति चेत्,
९१
( स्वो० व्या० )
त्याह- इह च वस्तु धर्मव्यतिरिक्तं तच स्वरूपेण सत् पररूपेण च असदित्यभ्युपगमात् कारणात् तथा धर्माणां च परत्वात् तद्रूपेणसदादिना धर्मरूपेण असत्त्वात् हेतोः अवस्तुत्वप्रसङ्गः ॥
अत्रैव भावनां कुर्वन्नाह-न चेत्यादि । न च तत् वस्तु न प्रक्रान्तधर्मव्यतिरिक्तमपि - मौलधर्मव्यतिरिक्तमपि स्वरूपेण सत् पररूपेण चासत् । न च न कस्मात् ? । अत्यन्ताभावप्रसङ्गात् । यदि नैवंरूपम्, खरविषाणं तर्हि तदिति भावना । इति - एवं उक्तदोषापत्तिरेव स्वरूपेणाप्यसत्त्वात्, अवस्तुत्वादित्यभिप्रायः । अत्राह - नापत्तिः अनन्तरोदिता । कुत इत्याह- तस्य मूलधर्म - २० व्यतिरिक्तस्य वस्तुनो यथोदितत्वानुपपत्तेः । खरूपेण सत् पररूपेण चासदिति' यथोदितं तदनुपपत्तेः, मूलधर्मव्यतिरिक्तं वस्तु नैवेष्यत इत्यर्थः । अत्रोत्तरम् - अथ कीहक तत् वस्तु इति एतत् कथनीयम् । अव्यपदेशार्हमिति चेत्, अत्रोत्तरम् - न, खवचन विरोधात् । एनमेवाह- अधिकृत व्यपदेशेनअव्यपदेशार्हमित्यनेन व्यपदेशात् । इत्थं चैतदङ्गीकर्तव्यमित्याह - अन्यथाऽ- २५ व्यपदेशार्हमिति एवं शब्दाप्रवृत्तेः । सच्छन्दादिव्यपदेशार्ह न भवति इति चेत्, अत्रोत्तरम् -किमत्र 'क्षुण्णं यत् सच्छब्दादिव्यपदेशार्हं न भवत्येतद् वाच्यम्, यतो न तत् वस्तु सन्नाप्यसदिति चेत्, 'क्षुण्णम् । एतदाशङ्कयाह - सदसत् तर्हि नियमतो यद् वस्तु न च सन्नाप्यसत् तदित्थम्भूतमेव । एतदपि नैव तत्त्वत इति चेत्, यदुत सदसदिति । एतदाशङ्कयाह - ३०
१ 'क्षणमिति' इति क- पाठः, 'क्षूणमिति' तु घ - पाठः । २ प्रेक्ष्यतां चतुर्था पङ्किः पञ्चमा च । ३ ‘नैवेमिध्यत' इति ङ-पाठोऽशुद्धः । ४-५ उभयत्र 'क्षण' इति घ ङ - पाठः ।
१५