________________
अनेकान्तजयपताकाख्यं प्रकरणम् [प्रथमः
(मूलम् ) 'सर्वात्मना च करणे तद्भावरूपमेव स्यात्" इत्यादि प्रतिक्षिप्तम्,
अभावस्य वस्तुधर्मत्वात्, कथञ्चिदव्यतिरेकात्, कार्यान्तराकारण५ त्वादिति, तस्माद् व्यवस्थितमेतत् सदसद्रूपं वस्तु तथा चोक्तम्
"यस्मात् प्रत्यक्षसंवेद्यं कार्यतोऽप्यवगम्यते।
तस्मादवश्यमेष्टव्यं वस्त्वेकमुभयात्मकम् ।। इति ॥
अपरस्त्वाह-ननु च वस्तुनः खरूपेण सत्त्वं पररूपेण चासत्त्व१०मित्येतदिष्यत एवेति सिद्धसाध्यता । एतदप्ययुक्तम् , स्वमतवि
रोधात्। तथाहि-एवमिच्छता वस्तुन एव सत्वमसत्त्वं च धर्मावित्येष्टव्यम्, वक्तव्यं च धर्मधर्मिणोरन्यत्वमनन्यत्वमन्यानन्यत्वं चेति । किश्चातः। यद्यन्यत्वमवस्तुत्वादिप्रसङ्गः । कथम् ?। इह च वस्तु धर्म
(स्वो० व्या०) १५ उक्तन्यायेन 'सर्वात्मना च करणे तद्भावरूपमेव स्यात्" इति एतत् प्रतिक्षिप्तम् , अभावस्य वस्तुधर्मत्वात् । 'न ह्यसति चेतनात्वेऽणुश्चेतनास्वभावो नाम" इत्यनेन प्रकारेण,अत एव कथञ्चिदव्यतिरेका भावादभावस्य कार्यान्तराकारणत्वादिति। यस्मादेवं तत् तस्माद् व्यवस्थितमेतत् सदसद्रूपं वस्तु। तथा चोक्तमिति ज्ञापकमाह-यस्मात् प्रत्यक्षसंवेद्यम् उक्तवत् कार्यतो२० ऽप्यवगम्यते उक्तनीतेः, तस्मादवश्यमेष्टव्यं न्यायविदा वस्त्वेकमुभयात्मकं-सदसद्रपमिति ॥
अन्यस्त्वाह वैशेषिकः-ननु च वस्तुनः-घटादेः स्वरूपेण सत्त्वं पररूपेण चासत्वमित्येतदिष्यत एव इति एवं सिद्धसाध्यता, उभयात्मकमिति । एतदाशङ्याह-एतदप्ययुक्तम्, खमतविरोधात् । एनमेवाह तथाहीत्या२५ दिना । तथाहीत्युपप्रदर्शने । एवमिच्छता यथोदितं वस्तुन एव सत्त्वम
सत्त्वं च धर्मावित्येष्टव्यं परेण । वक्तव्यं च धर्मधर्मिणोरन्यत्वमनन्यत्वमन्यानन्यत्वं चेति विकल्पाः । किश्चातः?। यद्यन्यत्वं धर्मधर्मिणोः अवस्तुत्वादिप्रसङ्गः तयोरेव । 'आदि'शब्दाद् धर्मधर्मिप्राप्तिपरिग्रहः । कथमि
(विवरणम्) ३० (२८) धर्मधर्मिप्राप्तिपरिग्रह इति ! धर्माणां धर्मिरूपेण प्राप्तिः धर्मधर्मिप्राप्तिः॥
१ प्रेक्ष्यता षोडशं पृष्ठम् । २ सन्तुल्यतां सप्तदशपृष्ठगतं पद्यम्। ३ अनुष्टुप् । ४ प्रेक्ष्यता षोडशं पृष्ठम् । ५ समीक्ष्यतां ४२तम पृष्ठम् । ... ६ 'खस्वविरोधात्' इति क-पाठः।