________________
अधिकारः]
खोपत्रव्याख्यामुनिचन्द्रीयविवरणयुतम्
यचोक्तम्-'न च कार्यद्वारेणापि सदसद्रूपं वस्तु प्रतिपत्तुं शक्यते, यतो नोभयरूपं कार्यमुपलभ्यते' इत्यादि, एतदप्यनवकाशम् , वस्तुस्थित्योभयरूपस्योपलम्भस्थ साधितत्वात् । न च तत् कार्यकरणे ५ प्रवर्तमानं केनचिदाकारेण करोति, केनचिन्न करोति, एकस्य करणाकरणविरोधात्" इत्याद्यप्यसारम् ,विरोधासिद्धः। तथाहि-पर्यायात्मना
(स्वो० व्या०) अनन्तरोदितविकल्पयोः, 'अपि'शब्दादेकत्वमपि निमित्ताभेदद्वाराऽऽयातं प्रत्युक्तंनिराकृतम् । कुत इत्याह-क्षयोपशमवैचित्र्यात् । स ह्यनेकधर्मात्मके वस्तुनि. कस्यचित् कश्चिद् यस्तथा प्राथम्यादिभेदेन तद्धेतुरिति ॥ __ यच्चोक्तमित्यादि । यच्चोक्तं मूलपूर्वपक्षे 'न च तत् कार्यद्वारेणापि सदसद्रूपं वस्तु प्रतिपत्तुं शक्यते, यतो नोभयरूपं कार्यमुपलभ्यते इत्यादि, एतदप्यनवकाशम् । कुत इत्याह-वस्तुस्थित्योभयरूपस्योपलम्भस्य साधितत्वात् , अनन्तरमेव । 'न च तत् कार्यकरणे प्रवर्तमानं ५ केनचिदाकारेण करोति, केनचिन्न करोति, एकस्य करणाकरणविरोधात्' इत्याद्यपि मूलपूर्वपक्षोक्तमेव असारम् । कुत इत्याह-विरोधासिद्धेः ।
(विवरणम्) (९) एकत्वमपि निमित्ताभेदद्वाराऽऽयातमिति । एकत्वम्--एकरूपता सत्त्वासत्वविकल्पयोः । कीदृशमित्याह-निमित्ताभेदद्वाराऽऽयातं निमित्तस्य सदसद्रूप-२० वस्तुनो योऽभेदः-अनानात्वं स एव द्वारम्-उपायस्तेनायातम्-आपन्नं यो हि येन सह सर्वथाऽभिन्ननिमित्तः स तेन सह ऐक्यमानोति, यथा सदसद्विकल्पयोरन्यतरस्य स्वरूपमभिन्ननिमिचौ च घटायेकवस्त्याश्रितौ सदसद्विकल्पाविति स्वभावहेतुप्रयोग इति पराकूतम् ॥ .
(११) यस्तथा प्राथम्यादिभेदेन तद्धेतुरिति । विचित्रो हि ज्ञानावरणादिक्षयो-२५ पशमः प्राणिनाम् , ततस्तद्वशात् कस्यापि प्रथमतया सत्त्वांशमसत्त्वांशं वा विषयतया समवलम्बमानो नियतैकरूपविकल्पहेतुः सम्पद्यते इति यौगपद्यदोषपरिहारः। एकत्वपरिहारस्तु निमित्ताभेदस्य सदसत्त्वयोः कथश्चिद् भिन्नत्वेनासिद्धत्वादिति स्वयमेव बोद्धव्यं नैमित्तिकेन रूपेण ॥ . १ षोडशे पृष्ठे । २ प्रेक्ष्यतां षोडशं पृष्टम् । ३ षोडशे पृष्ठे । ४ समीक्ष्यतां षोडशं पृष्ठम् । ५ 'पराकृतम्' इति क-पाठः । ६ 'सत्त्वांशे' त्यादेरारभ्य ‘घटादिरूपतया पर्यन्तकः पाठो न वर्तते च-प्रतो ।