________________
अनेकान्तजयपताकाख्यं प्रकरणम् [प्रथमः
(मूलम् ) आह-एवमप्यस्तिनास्तीतिविकल्पो स्वस्वरूपनियतौ न युज्येते, तत्त्वतः शबलवस्तुबलोत्पत्तेरिति । उच्यते-को वा किमाह ? किन्तु ५ नेमौ स्वस्वरूपनियतावेव, क्षयोपशमभेदात्, प्रधानोपसर्जनभावत इतरेतराक्षेपेण प्रवृत्तेरिति । उक्तं च---
"अयमस्तीति यो ह्येष भावे भवति निश्चयः। नैष वस्त्वन्तराभावसंवित्त्यनुगमाहते ॥ नास्तीत्यपि च संवित्तिर्न वस्त्वनुगमं विना ।
ज्ञानं न जायते किश्चिदुपष्टम्भनवर्जितम् ॥” इति। एतेन योगपद्यमपि प्रत्युक्तम् , क्षयोपशमवैचित्र्यादिति ॥
(स्वो० व्या०) आहेत्यादि । आह-एवमप्यस्तिनास्तीतिविकल्पौ यथोदितौ खस्वरूपनियती प्रत्येकरूपतया न युज्यते । कुत इत्याह-तत्त्वतः-परमार्थेन शबल१५ वस्तुबलोत्पत्तेः-सदसद्रपवस्तुसामोत्पत्तेर्द्वयोरपि इति। उच्यतेऽत्र समाधिः
को वा किमाह-इत्थमेवैतत् , किन्तु नेमौ-अस्तिनास्तीतिविकल्पौ स्वस्वरूपनियतावेव एकान्ततः प्रत्येकरूपतया । कुत इत्याह-क्षयोपशमभेदात्द्रव्यादिनिमित्तात् प्रधानोपसर्जनभावत इतरेतराक्षेपेण-अस्तित्वाद्यपेक्षया
प्रवृत्तेः तयोरिति । उक्तं च अन्यैरपि-अयमस्तीति-एवं यो ह्येष भावे२० सत्तारूपे भवति निश्चयः तदुत्थो नैष भवति वस्त्वन्तराभावसंवित्यनुगमादृते, तत्तदभावसंवित्पूर्वक इत्यर्थः ।।
नास्तीत्यपि च संवित्तिन वस्त्वनुगमं विना तुच्छा-असदाश्रयैव, एवं ज्ञानं न जायते किश्चिदुपष्टम्भनवर्जितं, निरालम्बनमिति । एतेनेत्यादि । एतेन-तत्त्वतः क्षयोपशमभेदनिबन्धनगर्भेणानन्तरोदितपरिहारेण योगपद्यमपि
(विवरणम्) (२१) तत्तदभावसंवित्पूर्वक इति । तस्य-वस्त्वन्तरस्य घटापेक्षया पटादेस्तस्मिन् "घटे यकाभावसंवित् तत्पूर्वक इति ।
(२४) योगपद्यमपीति । एकवस्त्वात्मकतया सत्त्वासत्त्वयोः सग्निहितयोः सतोः सदसद्विकल्पयोर्योगपद्यं प्राप्नोतीति परस्याशयः ॥
१ अनुष्टुप् । २ 'नास्तीत्यपि न संवित्ति०' इति घ-पाठः । ३ अनुष्टुप् । ४ "विना अतुच्छा' इति उ-पाठः । ५ 'एवं विज्ञानं न' इति घ-पाठः। 'हारेण आयोग. इति ड-पाठः । ७'घटेकाभाव.' इति क-पाठः । ८ 'यौग्यपथ(यं) प्राप्नोतीति' इति च-पाठः ।