________________
अधिकारः] स्योपशव्याख्यामुनिचन्द्रीयविवरणयुतम् ८५
(मूलम् ) इति' एतदुक्तिमात्रम् , अभिमतविषये व्यापारस्य दर्शितत्वात् । न चैवमनभिमते रसादावसौ, तस्य तत्प्रकाशनस्वभावत्वासिद्धेः, इति न तत्र रसावसायापत्तिरेव, कुतोऽस्याशक्यपरिहारतेति ? ।५. अतो भावमात्रस्यैवाभावत्वानुपपत्तेः, लोकानुभवयुक्तिविरोधात्, अन्यविवेकविशिष्टतायाश्च परपक्षेऽयोगात् , तुच्छत्वेन तस्य तेन सम्बन्धानुपपत्तेः, तादात्म्यतदुत्पत्त्यभावात् , विवेकस्य वस्तुताशक्तेः, अप्रतिबद्धस्य च विशेषणत्वायोगात्, अतिप्रसङ्गात् उभयरूपमेव तदिति प्रतिपत्तव्यम् ; अन्यथा तदनुपपत्तेरिति ॥ . .
(खो० व्या०) रसावसायोऽशक्यपरिहारः सम्पयेत' इत्येतत्-पूर्वपक्षोदित उक्तिमात्रं -निरर्थकम् । कुत इत्याह-अभिमतविषये-अभावाख्ये व्यापारस्य-अवगमसम्बन्धिनो दर्शितत्वात् । न चैवमित्यादि । न चैवमभाववत् अनभिमते रसादौ विषये असौ-अवगमव्यापारः । कुत इत्याह-तस्येत्यादि । तस्य, प्रक्रमाद् १५ रूपावगमस्य,तत्प्रकाशनखभावत्वासिद्धः-रसप्रकाशनस्वभावत्वासिद्धेः इतिएवं न तत्र रसावसायापत्तिरेव अतत्स्वभावतया । कुतोऽस्य-रसावसायस्य अशक्यपरिहारतेति ? । नैवेत्यर्थः । अत इत्यादि । अतः स्थितमेतदुभयरूपमेव, तदिति प्रतिपत्तव्यमिति योगः। हेतूनाह-भावमात्रस्यैव-अभावाविशिष्टस्य अभावत्वानुपपत्तेः। अनुपपत्तिश्च लोकानुभवयुक्तिविरोधात्, २० भावस्य ह्यभावत्वे लोकादिविरोधः प्रकटः । अन्यविवेकविशिष्टो भावोऽभाव इति मोहापोहायाह-अन्यविवेकविशिष्टतायाश्च भावगतायाः परपक्षेऽयोगात् । अयोगे कारणमाह-तुच्छत्वेन तस्य-अन्यविवेकाभावस्य तेन-भावेन सह सम्बन्धानुपपत्तेः । अनुपपत्तिश्च तादात्म्यतदुत्पत्त्यभावात् , भावविवेकयोरिति । इहैव युक्तिमाह-विवेकस्य वस्तुताशक्तेः प्रतिबन्धासिद्ध्यैव । २५ अप्रतिबद्ध एवायं विशेषणं भविष्यतीत्याशङ्कानिरासार्थमाह-अप्रतिबद्धस्य च-". अन्यविवेकस्य विशेषणत्वायोगात् भावं प्रति । अयोगश्च अतिप्रसङ्गात्यस्य कस्यचिद् विशेषणत्वापत्तेः। अत उभयरूपमेव भावाभावरूपतया तत्वस्तु इति एवं प्रतिपत्तव्यम्, अन्यथा-एवमनभ्युपगमे तदनुपपत्तेःवस्त्वनुपपत्तेः इति ॥
१ प्रेक्ष्यतां ८३तम पृष्ठम् । २'तत्प्रकाशस्वभाव.' इति घ-पाठः । ३ 'तस्य तत्र सम्बन्धा.' इति ग-पाठः। ४ समीक्ष्यतां ८३तमं पृष्टम्। ५ 'द्रव्ययोरेव संयोगः' इति टिप्पणकं ङ-प्रतौ । ६ 'बन्धसिद्धयैव' इति ङ-पाठः ।