________________
अनेकान्तजयपताकाख्यं प्रकरणम्
(मूलम् )
पदार्थमात्राणामेवोक्तवद् भावाभावात्मकत्वात्, अन्यथा तन्मात्रतानुपपत्तेः, इतरेतराभावात्मकत्वे तत्तद्भावसिद्धेः ॥
ततश्च 'प्रत्यक्षं प्रमाणं पदार्थमात्राखेव लब्धप्रतिष्ठं तासामेवावगमो युक्तः, तत्र व्यापारसम्भवात्" इत्यत्राविसंवाद एव, किन्तु यथाऽवस्थितानामवगमे कथमेकरूपताऽवगमस्येति चिन्तनीयम् । अभावे व्यापाराभावादिति चेत्, न भावानुविद्धत्वेन तस्य व्यापाराभावासिद्धेः, यथाऽवस्थितार्थप्रकाशनस्वभावत्वात्, तासां च १० तथाऽवस्थितत्वात्, अन्यथा तद्ब्रहणायोगात् । एवं च 'अव्यापारेsपि परिच्छेदे रूपप्रवृत्तेऽपि रसावसायोऽशक्यपरिहारः सम्पद्येत
५
८४
[ प्रथमः
( स्वो० व्या० )
प्रायः । इति एतद् यदुच्यते परैः - स्याद्वादभङ्गादौ दिवाकरादिभिः तदपि प्रतिक्षिसं - निराकृतमेव इति । कुत इत्याह-पदार्थमात्राणामेवोक्तवद् १५ भावाभावात्मकत्वात् कारणात् । इत्थं चैतदङ्गीकर्तव्यमित्याह - अन्यथा तन्मात्रत्वानुपपत्तेः - पदार्थमात्र तानुपपत्तेः । कथमित्याह - इतरेत्यादि । इतरेतराभावात्मकत्वे सति तत्तद्भावसिद्धेः - पदार्थमात्राणां पदार्थमात्रभाव - सिद्धेः, अन्यथा तत्साङ्कर्यमनिवारणीयमित्यर्थः ॥
ततश्चेत्यादि । ततश्च एवं च सति 'प्रत्यक्षं प्रमाणं पदार्थमात्राखेव २० लब्धप्रतिष्ठं तासामेवावगमो युक्तः, तत्र व्यापारसम्भवात्' 'इत्यन्त्राविसंवाद एव वस्तुस्थित्याऽऽवयोः, किन्तु यथाऽवस्थितानां - पदार्थमात्राणाम् अवगमे कथमेकरूपताऽवगमस्य उभयरूपत्वात् तासामिति चिन्तनीयम् एतत् । पराभिप्रायमाह-अभावे व्यापाराभावादिति चेत्, एकरूपतावगमस्य इति एतदाशङ्कयाह - नेत्यादि । न-नैतदेवम् । भावानुविद्वत्वेन हेतुना तस्य२५ अभावस्य व्यापाराभावासिद्धेः तत्रावगमस्येति । असिद्धिमेवाह-यथाऽवस्थि तार्थप्रकाशनस्वभावत्वात्, अवगमस्येति प्रक्रमः, तासां च - पदार्थमात्राणां तथा - उभयरूपतया अवस्थितत्वात् । इत्थं चैतदङ्गीकर्तव्यमित्याह - अन्यथाउभयरूपतानभ्युपगमे तद्ब्रहणायोगात् पदार्थमात्राणां ग्रहणायोगात्, भावमात्रतयेति भावः । एवं च सति 'अव्यापारेऽपि परिच्छेदे रूपप्रवृत्तेऽपि
१ प्रेक्ष्यतां ८३ पृष्ठम् । २ समीक्ष्यतां ८३तमं पृष्ठम् । ३ 'तस्य भावस्य' इति ङ-पाठः ।