________________
अधिकारः] स्वोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
८३ (मूलम्) बनीयात् को भावादभावस्य भवता विशेषो दर्शितः स्यात्' इत्येतदप्यत्रानवकाशमेव, तथाकार्यक्रियाऽकरणादिति । अतो व्युपरतेऽप्यक्षव्यापारेऽर्थपरिच्छेदानुभवसंस्कारप्रसूतो नास्तिताविकल्पः ५ तत्प्रसूतत्वादेव कथं वातव्यं परिहरति इति चिन्तनीयम् , अन्यथाभूतेऽर्थे तथापरिच्छेदानुभवसंस्कारानुपपत्तेः अतथाभूताच ततो न नास्तिताविकल्पप्रसूतिरिति भावनीयम् । एतेन यदि "प्रत्यक्षं प्रमाणं पदार्थमात्राखेव लब्धप्रतिष्ठं तासामेवावगमो युक्तः, तत्र व्यापारसम्भवात्, अव्यापारेऽपि परिच्छेदे रूपप्रवृत्तेऽपि रसावसाय: १० अशक्यपरिहारःसम्पद्येत” इति यदुच्यते पैरैस्तदपि प्रतिक्षिप्तमिति,
(स्वो० व्या०) अभावात् । ततश्च यद्यसावपि कार्यक्रियासु कक्षां बध्नीयात् को भावादभावस्य भवता विशेषो दर्शितः स्यात्, इत्येतदपि अत्र-उदितपक्षे अनवकाशमेव । कुत इत्याह-तथा-तेन पररूपभावप्रकारेण कार्यक्रियाऽ-१५ करणादिति। अतो व्युपरतेऽप्यक्षव्यापारे परनीत्याऽपि अर्थपरिच्छेदानुभवसंस्कारप्रसूतो नास्तिताविकल्पः तत्प्रसूतत्वादेव-अर्थपरिच्छेदानुभवसंस्कारप्रसूतत्वादेव कथं स्वातन्यं परिहरति, भावमात्रवस्त्वनुभवपारतच्यासिद्धेः इति चिन्तनीयम् । एतदेव भावयति-अन्यथाभूतेऽर्थेभावमात्रे तथा-उभयविकल्पजनकत्वेन परिच्छेदानुभवसंस्कारानुपपत्तेः २० कारणात् , अतथाभूताच । ततः-तथापरिच्छेदानुभवसंस्कारात् न नास्तिताविकल्पप्रसूतिः, न हि शुक्लपरिच्छेदानुभवसंस्कारात् पीतविकल्पप्रसूतिः इति भावनीयम् । एतेनेत्यादि । एतेन-अनन्तरोदितेन न्यायेन यदि प्रत्यक्षं प्रमाणं पदार्थमात्राखेव-स्खलक्षणरूपासु लब्धप्रतिष्ठं वर्तते, ततः तासामेव-पदार्थमात्राणाम् अवगमो युक्तः । कुत इत्याह-तत्रेत्यादि । तत्र-तासु २५ पदार्थमात्रासु व्यापारसम्भवात् प्रत्यक्षस्य । अव्यापारेऽपि न विद्यते च्यापारो यस्मिन् , प्रक्रमात् प्रत्यक्षस्य, तदव्यापारं-विषयान्तरमभावादि तस्मिन्नपि तद्विषयेऽपि परिच्छेदेऽभ्युपगम्यमाने, सामर्थ्यात् प्रत्यक्षस्यैव । किमित्याह-रूपप्रवृत्तेऽपि परिच्छेदकत्वेन प्रत्यक्षे रसावसाय:-रसपरिच्छेदः । किमित्याहअशक्यपरिहारः सम्पयेत, अव्यापारेऽपि विषये तत्परिच्छेदसिद्धेरित्यभि-३०
१ प्रेक्ष्यतां ७९तमं पृष्ठं ८० तमं च। २ 'समापद्यतेति' इति ग-पाठः। ३ स्याद्वादभङ्गादौ दिवाकरादिभिः इति व्याख्ययाऽवगम्यते। ४ समीक्ष्यता ७९तमं पृष्ठं ८०तमं च । ५ 'प्रसूतत्वादेव च कथं' इति ङ-पाठः । ६ 'भवापार०' इति च-पाठः। ७ 'प्रत्यक्षरसा.' इति क-पाठः ।