________________
अनेकान्तजयपताकाख्यं प्रकरणम् .
[ प्रथमः (मूलम्) स्येति तद्वत्तदितरस्यापि तत्त्वम्, 'तत्तत्त्वान्यथाऽयोगात्, तदुभयनिमित्तत्वैकभावत्वे चित्रतया तद्भेदसिद्धेः, इति भावाभावात्मक५ वस्तुप्रभवमेव तद्विकल्पद्वयम् , पारम्पर्येण तन्निमित्तत्वात्। अतोऽत्यन्तसूक्ष्मधियः किं नास्थामनोरथं पूरयतीति वाच्यम् ? ॥
यदपि चोक्तम्-'यतोऽभावस्य कृत्यक्रियासु उपरतव्यापारतयाऽभावत्वम्' इत्येतदपि न नो बाधायै, पररूपेणार्थक्रियाऽकरणात् तद्रूपस्य च तत्राभावात् । ततश्च 'यद्यसावपि कार्यक्रियासु कक्षा
(स्त्रो० व्या०) तथाहीत्युपप्रदर्शने । येन स्वभावेन तत्-अधिकृतसामर्थ्यम् , एकस्य निमित्तम् , प्रक्रमात् विकल्पस्य, तेनैव-स्वभावेन अपरस्य-विकल्पस्य इति-एवं तद्वत्एकविकल्पवत् तदितरस्यापि-अपरविकल्पस्यापि तत्त्वम्-एकविकल्पत्वम् । कुत इत्याह-तत्तत्त्वान्यथाऽयोगात्, तस्य-अधिकृतसामर्थ्य स्वभावस्य तत्त्वं येनैव १५ तेनैवेत्यनेन प्रकारेणैकत्वं तत्तत्त्वं तदन्यथाऽयोगात्, न हि तदेवाकुर्वतस्तत्तत्त्वमिति भावनीयम् । तदुभयनिमित्तत्वैकवभावत्वेऽस्यादोष इति विभ्रमव्यपोहायाह-तदुभयेत्यादि । तदुभयनिमित्तत्वम्-अधिकृतविकल्पोभयनिमित्तत्वमेव एको भावःखभावो यस्याधिकृतसामर्थ्यस्य तत्तदुभयनिमित्तत्वैकभावं तद्भावस्तस्मिन् सति चित्रतया कारणेन, न ह्यनेकगर्भमेकमचित्रं नामेत्यर्थः। तद्भेदसिद्धेः-प्रक्रमा२० दधिकृतसामर्थ्यस्य स्वभावभेदसिद्धेः इति-एवमुक्तनीत्या भावाभावात्मकवस्तुप्रभवमेव तत्-अधिकृतविकल्पद्वयम् । कुत इत्याह-पारम्पर्येण तन्निमित्तत्वात्-तदुद्भवान्निर्विकल्पकादुत्पत्तेरिति । न हि शुक्लवस्तुप्रभवादविकल्पाच्छुक्लपीतविकल्पद्वयप्रभव इत्यालोचनीयम् । अत इत्यादि । अतः-अस्मात्
कारणात् अत्यन्तसूक्ष्मधियः-इत्थमालोचकस्य किं नास्थामनोरथं पूरय२५ तीति वाच्यम् ? । पूरयत्येवेत्यर्थः ॥
यदपि चोक्तं पूर्वपक्षे-'यतोऽभावस्य कृत्यक्रियासु उपरतव्यापारतयाऽभावत्वम्' इति एतदपि न ना-नास्माकं थाधायै। कुत इत्याहपररूपेणार्थक्रियाऽकरणात् तद्रूपस्य च-पररूपस्य च तत्र-वस्तुनि
१ 'तत्तत्त्वान्यथायोगात्' इति क-पाठः । २ 'त्वैकस्वभावत्वे' इति ग-पाठोऽनादरणीयः। ३ ७९तमे पृष्ठे । ४ 'तदेकविकल्पवत्' इति क-पाठः। ५ 'तदन्यथायोगात्' इति घ-पाठः । ६ 'खभावत्वस्यादोष' इति क-पाठः, 'खत्वे स्याददोष' इति तु उ-पाठः। ७ 'कल्पकत्वोत्पत्तरिति' इति उ-पाठः। ८ ७९तमे पृष्टे ।