________________
अधिकारः] खोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम्) न च तत्त्वतस्तन्नीतावुपादानेतरहेत्वोर्भेदसिद्धिः, हेतुलक्षणाविशेपात्, विशिष्टलक्षणायोगाच्च ॥
न चासाधारणादिहेतुतया तत्सिद्धिः, आद्यस्यासम्भवात् , एकस्यै-५ वानेककार्यकृत्त्वात् सर्ववुद्धैःि , अन्यथा तदतत्त्वप्रसङ्गः । स्वभावभेदमन्तरेण चाधिकृतसामर्थ्यस्यापि तदुभयनिमित्तत्वानुपपत्ते तदेकत्वापत्तिः । तथाहि-येन स्वभावेन तदेकस्य निमित्तं तेनैवापर
(स्वो० व्या०) सामर्थ्यातिरिक्तमन्यद् वासनादि, अनभ्युपगमात् ; योगाचारपक्षे त्वालयमधिकृत्य १० उपरिष्टाद् वक्ष्यामः । न चेत्यादि । न च तत्त्वतस्तन्नीतो सामान्येनैव उपादानेतरहेत्वोः नाममात्रकल्पितयोर्भेदसिद्धिः । कुत इत्याह-हेतुलक्षणाविशेषात् सामान्येन विशिष्टलक्षणायोगाच्च द्वयोरपि ॥
न चेत्यादि । न च असाधारणादिहेतुतया असाधारण उपादानहेतुः साधारणस्त्वितर इत्येवम्भूतया तत्सिद्धिः--उपादानेतरहेत्वोर्भेदसिद्धिः । कुत १५ इत्याह-आद्यस्य-असाधारणस्य हेतोः असम्भवात् । कथमसम्भव इत्याहएकस्यैवेत्यादि । एकस्यैव-वस्तुनोऽनेककार्यकृत्त्वात्-'अनेककार्यकरणशीलत्वात् । एतदेवाह-सर्वबुद्धः-सर्वज्ञैहप्तेरेकस्य । इत्थं चैतदङ्गीकर्तव्यमित्याहअन्यथेत्यादि । अन्यथा-एवमनभ्युपगमे तदतत्त्वप्रसङ्गः तेषां-बुद्धानामबुद्धत्वप्रसङ्गः, तदेकापरिज्ञाने तत्सर्वज्ञत्वाभावादित्यर्थः । प्रकृतमेवाधिकृत्याह-स्वभाव-२० त्यादि । स्वभावभेदमन्तरेण चाधिकृतसामर्थ्यस्यापि उपन्यस्तविकल्पद्वयनिमित्तस्य तदुभयनिमित्तत्वानुपपत्तेः तच तत् उभयं च तदुभयंप्रक्रान्तविकल्पोभयं तत्कारणत्वानुपपत्तेः कारणात् । किमित्याह-तदेकत्वापत्तिः तस्य-प्रक्रान्तविकल्पोभयस्यैकत्वापत्तिः । एतदेव भावयति तथाहीत्यादिना ।
(विवरणम्) (१८) सर्वज्ञप्तेिरेकस्येति । यदा सर्वेऽपि बुद्धाः सर्वात्मना सर्वमपि वस्तु अतीतानागतवर्तमानभेदभिन्नं पश्यन्ति तदा न किञ्चिद् विषयवस्तु कस्यचिद् बुद्धज्ञानस्यासाधारणरूपेणालम्बनभावं प्रतिपद्यते; अतो विवक्षितबुद्धज्ञानस्य य उपादानहेतुः कल्प्यते, सोऽपि न तत्र साधारणभावेन व्यावृत्तः, विवक्षितबुद्धव्यतिरिक्तबुद्धज्ञानानां तस्वालम्बनत्वादिति ॥
१ 'उपरिष्ठात्' इति घ-पाठः। २ 'असाधारणोपा०' इति क-पाठः। ३ 'नानेककार्यकारित्वं साधारणत्वं' इति टिप्पणकं ङ-प्रतौ । ४ 'तरकारणानुपपत्तेः' इति ङ–प्रती।
अनेकान्त. ११