________________
अनेकान्तजयपताकाख्यं प्रकरणम्
प्रथमः (मूलम्) क्रियासु कक्षां बनीयात् को भावादभावस्य भवता विशेषो दर्शितः स्यात् ? । अतो व्युपरतेऽक्षव्यापारेऽर्थपरिच्छेदानुभवसंस्कारप्रसूतो ५ नास्तिताविकल्पः स्वातत्र्यं परिहरतीति ।
अनोच्यते-'तदनुभवसामर्थ्यसमुत्थापितं विकल्पद्वयम्" इत्यनवचमेव, किन्तु न तवयनिमित्तखभावतामन्तरेणास्माद् द्वयप्रसूतिः, हेत्वभेदेऽपि फल भेदाभ्युपगमेऽभ्युपगमविरोधात् । उपादानहेत्वभेदे
सति स विरोधः। न च तत्सामर्यमुपादानमस्य, अहेतुकं तद्येतत् ३० सौत्रान्तिकपक्षे तदपरस्याभावात्, तस्यैव वासनादित्वात् ।
(खो० व्या० ) क्रियासु-अर्थक्रियासु कक्षा बन्नीयात्-यत्नं कुर्यात् कस्तर्हि भावात् सकाशात् अभावस्य-तुच्छस्य भवता-भावाभावात्मकवस्तुवादिना विशेषो दर्शितः स्यात् । न कश्चिदित्यर्थः । अतः अस्मात् कारणात् व्युपरतेऽक्षव्यापारे १५ तदुत्तरकालम् अर्थपरिच्छेदानुभवसंस्कारप्रसूतः, निर्विकल्पकसामोद्भूत इत्यर्थः । नास्तिताविकल्पः-न पटादीत्यादिरूपः खातत्र्यं परिहरतीति । अभावाक्षसम्बन्धाभावेन भावमात्रवस्त्वनुभवपरतत्र इत्यभिप्रायः । एष पूर्वपक्ष इति ॥
अनोच्यते समाधिः-तदनुभवसामर्थ्यसमुत्थापितं विकल्पद्वयमित्यनवद्यमेव-अपापमेव, किन्तु इदमवद्यं न तद्वयनिमित्तखभावता२० मन्तरेण । नेति प्रतिषेधे । तच्च तद् द्वयं च तवयम्-अधिकृतविकल्पद्वयम् , तस्य निमित्तस्वभावता-कारणस्वभावता तद्द्यनिमित्तस्वभावता, तामन्तरेण-विना । अस्मात्-अर्थपरिच्छेदानुभवसंस्काराद् द्वयप्रसूतिः, द्वयमिति विकल्पद्वयम् । कुतो न प्रसूतिरित्याह-हेत्वभेदेऽपि सति फल भेदाभ्युपगमे क्रियमाणेऽभ्युपगमविरोधात्, "अयमेव हि भेदो भेदहेतुर्वा भावानां यदुत विरुद्धधर्माध्यासः २५ कारणभेदश्च" इत्यभ्युपगमात् । उपादानहेत्वभेदे सति स विरोध:-अभ्युप
गमविरोधः। न च तत्सामर्थ्यम्-अर्थपरिच्छेदानुभवसंस्कारलक्षणम् , उपादानमस्य-अधिकृतविकल्पद्यस्य, अतोऽयं न दोष इत्यभिप्रायः । एतदाशझ्याह-अहेतुकं तर्येतत्-विकल्पद्वयम् । कुत इत्याह-सौत्रान्तिकपक्षेपाह्यार्थवादिमते तदपरस्य-यथोदितसामर्थ्यातिरिक्तस्य अभावात् कारणात् । ३० वासनादि तदित्साशकापोहायाह-तस्यैव वासनादित्वात्, न अधिकृत
प्रेक्ष्यतां ७९तम पृष्ठम्। २ 'इति' इति पाठो न विद्यते घ-पुस्तके । ३ प्रेक्ष्यता ४९तम पृष्ठम् ।