________________
७९
अधिकारः ] स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम्) : अत्राह-अस्त्येतदुभयविधं संवेदनम् । नास्यापहृतिरास्थीयते, किन्त्वेतदपास्तकल्पनानुबन्धेन संवेदनेनैकखभावे एवावबुद्धे योध्ये तदनुभवसामर्थ्यसमुत्थापितं विकल्पद्वयम्, न पुनर्भावाभावात्मक-५ वस्तुप्रभवम्, इति न सूक्ष्मधिय आस्थामनोरथं पूरयति, यतोऽभावस्य कृत्यक्रियासु उपरतव्यापारतयाऽभावत्वम् । यद्यसावपि कार्य
(खो० व्या०) त्वात् , तथाविधनिर्विकल्पकवदिति हृदयम् , तस्यापि च-तदाभासस्य कदाचित् वाऽमुत्र वा तथाविधानुभवनिबन्धनत्वेन-तत्तदध्यारोपानुभवनिबन्धनत्वेन १० हेतुना । किमित्याह-अनिमित्तत्वायोगात् कारणात् । न चैतदनर्थजमिति योगः॥ ___ अत्राह-अस्त्येतदुभयविधम्-उभयप्रकारं संवेदनम् । नास्यापहुतिरास्थीयतेऽस्माभिः, किन्त्वेतत्-उभयविधं संवेदनम् अपास्तकल्पनानुबन्धेन-निरस्तकल्पनासम्बन्धेन, निर्विकल्पकेनेत्यर्थः। 'संवेदनेन-विज्ञानेन एकखभाव एव-न नानास्वभाव अवयुद्ध-अवगते बोध्ये वस्तुनि भूयः १५ तदनुभवसामर्थ्यसमुत्थापितं-यथोदितानुभववीर्यजनितं विकल्पद्वयं घटः अयं न पटादीत्येतदिह वर्तते, न पुनर्भावाभावात्मकवस्तुप्रभवम्, निर्विषयत्वात् विकल्पानाम् इति-एवं न सूक्ष्मधियः-निपुणमतेः आस्थामनोरथं पूरयति एतद् विकल्पद्वयम् । अत्रैव युक्तिमाह-यत इत्यादिना । यतो-यस्मात् अभावस्य कृत्यक्रियासु-अर्थक्रियासु उपरतव्यापारतया कारणेन अ-२० भावत्वम् , नान्यथा । इत्थं चैतदङ्गीकर्तव्यमित्याह-यद्यसावपि-अभावः कार्य- .
(विवरणम्) - (१०) तदध्यारोपानुभवनिबन्धनत्वेनेति । शशिशङ्खपीतभावमरुमरीचिकाद्विचन्द्रादिषु योऽध्यारोपः असत्यपि तथाभूते विषयवस्तुनि तथाकारावभासलक्षणः। स चासावनुभवश्च स निबन्धनं यस्य स तथा, तद्भावस्तत्त्वं तेन । इदमुक्तं भवति-२५ योऽयं साम्प्रतं मरुमरीचिकादौ वितथार्थः प्रतिभासः प्रथते स नूनं तथाविधदोषादिह लोके परलोके वा तथाविधावभासस्य प्राक् सत्तायां सत्यां न पुनरन्यथा, अतः प्राक्प्रवृत्तमरुमरीचिकाप्रतिभासपूर्वक एव साम्प्रतो मरुमरीचिका दिप्रतिभासः अनादित्वात् संसारस्य ॥
१'चामुत्र' इति क-पाठः। २ 'नानुवेधेन' इति क-घ पाठः । ३ 'संवेधेन' इति ङ-पाठः । ४ 'स्वसंवेदने' इति उ-पाठः। ५ 'सामर्थ्यसमुत्थापितं यथोदितानुभववीर्य' इति उ-पाठः । ६ 'समारोपानुभव.' इति ख-पाठः। ७ शशिश्वेत.' इति च-पाठः ।