________________
अनेकान्तजयपताकाख्यं प्रकरणम् - [प्रथमः
(मूलम् ) - तदेवासहायं तदन्यविविक्तमिति चेत्, को वा किमाह ? । किन्तु
तदेवासहायत्वं सहायाभावं भेदकमन्तरेण ससहायस्येव न युज्यत ५ इति ब्रूमः । असहायं च घटोऽयं न पटादीति क्षयोपशमानुरूपम
परित्यक्तान्योन्यगर्भ संवेदनमाविद्वदङ्गनादिप्रतीतमित्यविषयोऽयं विवादस्य । न चैतदनर्थजम्, तद्भावभावित्वोपलब्धेः, तदन्यस्य तु सदाभासत्वात् , तस्यापि च कदाचित् तथाविधानुभवनिबन्धनत्वेन अनिमित्तत्वायोगादिति ॥
(स्वो० व्या०) तदेवेत्यादि । तदेव-अधिकृतसंवेदनम् असहायम्-अन्यरहितं तदन्यविविक्तं-संवेदनान्तरविविक्तम् । इति चेत्, एतदाशक्याह-को वा किमाह ? । इत्थमेवैतदित्यर्थः । किन्त्वित्यादि । किन्तु तदेवासहायत्वम्-अन्यरहितत्वं
सहायाभावं मुख्यं भेदकमन्तरेण-विना ससहायस्येव-अपरस्य न युज्यते ३५ इति ब्रूमः, न तु किञ्चिदन्यत् । प्रकृतयोजनामाह-असहायं चेत्यादि । असहाय
च-तदन्यविविक्तं च । कथमित्याह-घटोऽयं न पटादीति-एवं क्षयोपशमानुरूपं तदनन्तधर्मकत्वेऽपि नियमप्रवृत्त्या, अपरित्यक्तान्योन्यगर्भम् , इतरेतरानुवेधात् , संवेदनमिति विशेष्यम् । आविद्वदङ्गानादिप्रतीतम् , सकललोकासिद्धमित्यर्थः । इति-एवं प्रतीतत्वादेव अविषयोऽयं विवादस्य, अतो यादृश२० मिदं तादृशोऽर्थोऽपीति भावः । न चैतदित्यादि । न चैतत्-अन्तरोदितं संवेदनम्
अनर्थजम् अवस्तुनिमित्तम् । कुत इत्याह-तद्भावभावित्वोपलब्धेः-अर्थभावे भावित्वोपलब्धेरस्य परिणाम्यर्थग्रहणस्वभावतया न विरुद्धैवेयमिति भावनीयम् । क्वचिदेतदर्थाभावेऽपि भवति 'विकल्पजमित्याशङ्कानिरासार्थमाह-तदन्यस्येत्यादि । .. तदन्यस्य तु-अनर्थजस्याधिकृतसंवेदनतुल्यस्य तु तदाभासत्वात्-संवेदनाभास२५
(विवरणम्) ... (१७) तदनन्तधर्मकत्वेऽपि नियमप्रवृत्त्येति । यदि हि विषयवस्तुमात्राधी
नमेव संवेदनं प्रवतेत तदाऽनन्तधर्मणो विषयस्य भावात् हेलयैव सकलधर्मावगमः सकलप्रमातॄणां प्रसज्येत । न चैवं दृश्यते। अतो नियतेनैव रूपेण यद् विज्ञानं विजृम्भते तज्ज्ञायते । नूनं कश्चिदन्यो नियमहेतुरस्ति, स च ज्ञानावरणादिकर्म३० क्षयोपशम एवेति ॥
१ 'प्रसिद्धम्' इति क-पाठः। २. 'अविषयो विवादस्य' इति ङ-पाठः। ३ 'न वस्तु०' इति 3-पाठः। ४ 'विकल्पकमित्या.' इति ङ-पाठः । ५'मात्राधीनं संवेदनं' इति क-पाठः। ६ 'प्रवर्तते' इति क-पाठः। 'यदि ज्ञानं' इति क-पाठः ।