________________
७७
अधिकारः] खोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
७७ (मूलम्) नुवेधे 'वस्तुस्थित्या स्वप्रतिभासिसंवेदनाजनकत्वे तद्हणानुपपत्तेः। न च सदसद्रूपे वस्तुनि सन्मात्रप्रतिभास्येव तत्त्वतस्तत्प्रतिभासि, सम्पूर्णार्थाप्रतिभासनात्, नरसिंहे सिंहसंवेदनवत् । न चैतदुभय- ५ प्रतिभासि न संवेद्यते, तदन्यविविक्तताविशिष्टस्यैव संवित्तेस्तदन्यविविक्तता चाभाव इति सूक्ष्मधिया भावनीयम् ॥
(खो० व्या०) विषये तद्भावेतराभावाध्यवसायरूपमेव-घटभावा-ऽघटाभावपरिच्छेदरूपमेव उपजायते, तद्भावमात्रस्य-घटभावमात्रस्य इतराभावाननुविद्धस्य-१० अघटाभावाननुविद्धस्य । किमित्याह-अभावापत्तितो वस्तुस्थित्याऽघटत्वेन तदनुवेधे-अन्यासत्त्वानुवेधे सति वस्तुस्थित्या-परमार्थवृत्त्या स्वप्रतिभासिसंवेदनाजनकत्वे, उभयरूपसंवेदनाजनकत्वे इत्यर्थः । किमित्याह-तद्हणानुपपत्तेः तस्य-उभयरूपस्य वस्तुनो ग्रहणानुपपत्तेरिति । यद् यथारूपं तत् तथा गृह्यमाणं कथं गृहीतं नामेति भावनीयम् । न चेत्यादि । न च सदसद्रूपे वस्तुनि १५ उभयात्मके सन्मानप्रतिभास्येव, संवेदनमिति गम्यते, तत्त्वतस्तत्प्रतिभासि-सदसद्रूपवस्तुप्रतिभासि । कुत इत्याह-सम्पूर्णार्थाप्रतिभासनात्असत्त्वाप्रतिभासनेन । नरसिंहे सिंहसंवेदनवदिति निदर्शनम् । न सिंहसंवेदनं नरसिंहप्रतिभासि, एवं च वस्तुनोऽग्रहणमेवेति । न चेत्यादि । न च एतत्संवेदनम् उभयप्रतिभासि, प्रक्रमात् सदसदुभयप्रतिभासात् सदसदुभयप्रति- २० भासनशीलम् , न संवेद्यते, किन्तु संवेद्यते एव । युक्तिमाह-तदन्यविविक्तताविशिष्टस्यैव-संवेदनान्तरविविक्तताविशिष्टस्यैव संवित्तेः कारणात् , तदन्यविविक्तता चाभावस्तदन्येषां तत्र इति सूक्ष्मधिया भावनीयम्, उक्तनीत्यैव 'न ह्यसति चेतनात्वेष्णुश्चेतनास्वभावो नाम' इत्यादिलक्षणया ॥
(विवरणम्) च्छिद्यमानो घटते ? । अतो नियमात् तत्र अघटासत्त्वानुवेधोऽभ्युपगन्तव्यः; अन्यथा वस्तुनोऽभावापत्तिः । अतोऽभावापत्तितः सकाशात् तदनुवेधे-सत्तानुवेधे सति स्वप्रतिभासे(? सी)त्यादि योजनीयम् ॥
• १ अतः परं 'सदसद्रूपे पर्यन्तकः पाठः क-प्रतो नास्ति । २ स्थित्या घटत्वेन' इति क-पाठः । ३ 'असम्पूणो.' इति क-पाठः। ४ 'तदन्यसंविविक्तता' इति क-पाठः। ५ 'नीत्यैवं न' इति ऊ-पाठः। ६ 'चेतनात्वेऽणु' इति घ-पाठः। ७ प्रेक्ष्यतां ४२तमं पृष्ठम् । ...