________________
अनेकान्तजयपताकाख्यं प्रकरणम् [प्रथमः
(मूलम्) शक्तिभेदमन्तरेणैकतोऽनेककार्यासिद्धेरिति। एवमितरेतरानुविद्धतुल्येतरानेकान्तात्मकत्वे वस्तुनः प्रतिपत्रनुरोधतस्तथा तथा धर्म५ धर्मिभावो न विरुध्यत इति॥ ___ यदप्युक्तम्-'संविनिष्ठा विषयव्यवस्थितयः, न च सदसद्रूपं वस्तु संवेद्यते, उभयरूपस्य संवेदनस्याभावात्' इत्यादि, तदपि असाम्प्रतम्, उभयरूपस्य संवेदनस्याभावासिद्धेः, सदसद्रूपस्य वस्तुनो व्यवस्थापितत्वात् , संवेदनस्यापि च वस्तुत्वात् , तथायुक्तिसिद्धेश्च । ३० तथाहि-संवेदनं पुरोऽवस्थिते घटादौ तद्भावेतराभावाध्यवसायरूपमेवोपजायते, तद्भावमात्रस्येतराभावाननुविद्धस्याभावापत्तितस्तद
(स्त्रो० व्या) त्वादिसिद्धिः-सदसदतिरिक्तचेतनत्वादिसिद्धिः । इत्थं चैतदङ्गीकर्तव्यमित्याह
अन्यथेत्यादि । अन्यथा-एवमनभ्युपगमे तज्ज्ञानायोगात्-चेतनत्वादिज्ञाना५ योगात् । अयोगश्च निर्विषयत्वात् सदसतोस्तदभावेन ॥ __ अथ सदसती एव विषय इत्याशङ्कयाह-शक्तिभेदमन्तरेणैकतः-सदसदादेः अनेककार्यासिद्धेः-तैचेतनायनेकज्ञानकायसिद्धेः इति । उपसंहरनाह-एवमित्यादि । एवम्-उक्तेन प्रकारेण इतरेतरानुविद्धाश्च ते तुल्येतरानेकान्ताश्चेति विग्रहः । तदात्मकत्वे सति वस्तुनः प्रतिपत्रनुरोधतो यो यथा प्रतिपत्ता २० तदनुरोधेन तथा तथा-उक्तवत् तेन तेन प्रकारेण धर्मधर्मिभावो न वि
रुध्यते, उभयनिमित्तयोगात् इति ॥ __ यदप्युक्तं पूर्वपक्षग्रन्थे 'संविनिष्टा विषयव्यवस्थितयः, न च सदसद्रूपं वस्तु संवेद्यते, उभयरूपस्य संवेदनस्यामावात्' इत्यादि तदपि
असाम्प्रतम्-अशोभनम् । कुत इत्याह-उभयरूपस्य संवेदनस्याभावा२५सिद्धेः कारणात् । असिद्धिरपि सदसद्रूपस्य वस्तुनो व्यवस्थापितत्वात्, तथा संवेदनस्यापि च वस्तुत्वात् तथायुक्तिसिद्धेश्च । एनामेव दर्शयति तथाहीत्यादिना । तथाहीत्युपप्रदर्शने । संवेदन-विज्ञानं पुरोऽवस्थिते घटादौ
(विवरणम्) (११) अभावापत्तितस्तदनुवेधे सतीति सौत्रं पदम् । यदि हि घटादिसत्वम् ३० अपटासत्वेनानुविद्धं न स्यात् तदा कथं घटः सकलप्रमावृमिर्विविक्तरूपतया परि
१ऽकतो नैककार्या.' इति क-पाठः। २ रोधतस्तथा धर्म' इति घ-पाठः । ३ पञ्चदशे पृष्ठे। ४ अत आरभ्य 'व्यवस्थितत्वात्' पर्यन्तः पाठो नास्ति ग-प्रतौ। ५ 'तञ्चेतनस्वायनेक.' इति प-पाठः। ६ 'प्रतिपत्तेरनु०' इति ङ-पाठः । ७ पञ्चदश पृछे।