________________
अधिकारः] स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम् ) - तद्धर्मिभावेऽपि वस्तुत्वेन चेतनत्वा-ऽचेतनत्व-मूर्त्तत्वाऽमूर्त्तत्वज्ञेयत्व-प्रमेयत्वादिधर्मसिद्धर्धर्मधर्मिभावोपपत्तिरेव। न च सदसती एव चेतनत्वादि, तन्मात्रतत्त्वे सर्वत्र तद्भावप्रसङ्गात् साङ्कर्येण चेतन- ५ त्वाद्यभावः । न च विशिष्ट सदसती एव तत्, भेदकमन्तरेण विशिष्टत्वासिद्धेः, तन्मात्रत्वाविशेषात् । इति कथञ्चित् तदतिरिक्तचेतनत्वादिसिद्धिः; अन्यथा तज्ज्ञानायोगात् 'निर्विषयत्वात् ।।
(खो० व्या०) पक्षान्तरमधिकृत्य समाधिमाह तद्धर्मिभावेऽपीत्यादिना । तद्धर्मिभावेऽपि-तयोः । सदसत्त्वयोधर्मित्वेऽपि वस्तुत्वेन हेतुना । किमित्याह-चेतनत्वा-ऽचेतनत्वमूर्त्तत्वा-ऽमूर्त्तत्व-ज्ञेयत्व-प्रमेयत्वादिधर्मसिद्धेः । विज्ञानघटादिषु धर्मधर्मिभावोपपत्तिरेव सदसत्त्वयोर्धमित्वे चेतनत्वादीनां धर्मत्वादिति । न चेत्यादि । न च सदसती एव सत्त्वमसत्त्वं चेत्यर्थः । किमित्याह-चेतनत्वादि। चेतनत्वमचेतनत्वं चेत्यादि । कुत इत्याह-तन्मात्रेत्यादि । तन्मात्रतत्त्वे १५ तन्मात्रस्य-सदसन्मात्रस्य तत्त्वे-चेतनादितत्त्वे सर्वत्र अविशेषेण तद्भावप्रसङ्गात्-चेतनत्वादिभावप्रसङ्गात् । एवं च सर्वत्र तद्भावे साङ्कर्येण हेतुना चेतनत्वाद्यमाव:-चेतनत्वाचेतनत्वाद्यभावः, मिथो विरुद्धानामन्योन्यात्मताभावादित्यर्थः। न चेत्यादि । न च विशिष्टे केनचिद् रूपेण सदसती एव तत्चेतनत्वादि । कुत इत्याह-भेदकमन्तरेण वस्त्वन्तरं विशिष्टत्वासिद्धेः । २० अत्रैव युक्तिमाह-तन्मात्रत्वाविशेषात्-सदसन्मात्रत्वाभेदाद् भावनीयमेतत् । इति-एवं कथञ्चित् केनचित् प्रकारेण तद्भेदकत्वलक्षणेन तदतिरिक्तचेतन
(विवरणम्) (१२) ज्ञेयत्वप्रमेयत्वादिधर्मसिद्धेरिति । अत्र ज्ञेयत्वं सामान्योपयोगः, प्रमेयत्वं . तु विशेषपरिच्छेद इति ॥
(१८-१९) मिथो विरुद्धानामन्योन्यात्मताभावादिति । यदा हि परस्परविरुद्धा अपि चेतनाँचेतनाश्च भावाः सदसन्मात्रैकरूपतया धर्मान्तरस्य भेदकारिणोऽभावादेकरूपतां प्रतिपद्यन्ते, तदा न किञ्चिच्चेतनमचेतनं वा नियतरूपतया वस्तु व्यवहारपथावतारि स्यादिति ॥
- १ 'निर्विषयत्वात्' इति पाठान्तरं समसूचि ग--प्रतौ । २ 'चेतनमचेतनं चेत्यादि' इति क-पाठः । ३'चेतनादित्वे सर्वत्राऽविशेषेण' इति घ-पाठः। ४ 'वस्त्वन्तरविशिष्ट ' इति घ-पाठः। ५'धर्मसिद्धिरिति' इति क-च-पाठः। ६ 'सामान्यत्वोपयोगः' इति च-पाठः । ७'चेतनस्वभावाः' इति च-पाठ