SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ अनेकान्तजयपताकाख्यं प्रकरणम् .. [प्रथमः (मूलम्) त्वाद् धर्मधर्मिभावः। तथाहि-कथञ्चित् सदसत्वाभ्यामन्य एवं तत्साधारंणात्मा वस्तुत्वपरिणामः, तथाऽनुभवसिद्धत्वात्, वस्तु ५ इत्येकरूपतया प्रतीतेः । न चेयं तदुभयमात्रनिबन्धनैव, प्रतिभास भेदात् । एवमपि तन्निबन्धनत्वाभ्युपगमेऽतिप्रसङ्गात् , रूपमात्रादेव तद्रसादिप्रतीतिसिद्धेः । न चैतदतत्रानुपाति, तुल्यांशस्य द्रव्यत्वाभ्युपगमात्, अस्य च तद्भावोपपत्तेरिति ॥ (स्त्रो० व्या०) १० कारणात् तस्य च-वस्तुसमानपरिणामस्य कथञ्चित्-प्रतिभासभेदादिहेतुतया सद सत्त्वाभ्यां सकाशात् अन्यत्वात्। किमित्याह-धर्मधर्मिभावः, तत्समानपरिणामस्य धर्मित्वात् तयोश्च धर्मत्वादित्यर्थः । एतदेव भावयति तथाहीत्यादिना । तथाहीति पूर्ववत् । कथञ्चित्-केनचित् प्रकारेण सदसत्त्वाभ्यां सकाशात् अन्य एव तत्साधारणात्मा-सदसत्त्वसाधारणात्मा वस्तुत्वपरिणामो १५ धर्मिरूपः । कुत इत्याह-तथाऽनुभवसिद्धत्वात् । तथा-तद्देशनियततया तदतिरिक्तानुभवसिद्धत्वात् । एतदेवाह-वस्त्विति-एवम् एकरूपतया प्रतीते: कारणात् । न चेयं प्रतीतिः तदुभयमात्रनिबन्धनैव-सदसत्त्वोभयमात्रकारणैवैकान्तेन । कुत इत्याह-प्रतिभासभेदात् । प्रतिभासः-आकारः । एवमपि-प्रतिभासभेदेऽपि सति तनिबन्धनत्वाभ्युपगमे, प्रक्रमाद् वस्त्विति २० प्रतीतेः, तदुभयमात्रनिबन्धनत्वाङ्गीकरणे । किमित्याह-अतिप्रसङ्गात् । एनमेवाह-रूपमात्रादेव सकाशात् तद्रसादिप्रतीतिसिद्धेः तस्मिन्-अधिकृतवस्तुनि रसादिप्रतीतिसिद्धेः, अन्यत एवान्याकारविज्ञानभावेन । एवं च रसाद्यभावप्रसङ्गात् इति भावनीयम् । न चैतदित्यादि । न चैतत् समानपरिणामस्स वस्तुनो धर्मित्वप्रतिज्ञानम् अतन्त्रानुपाति, तत्रविरोधीत्यर्थः । कुत इत्याह२५ तुल्यांशस्य द्रव्यत्वाभ्युपगमात्, द्रव्यार्थपर्यायार्थचिन्तायां वृद्धग्रन्थेषु अस्य च-तत्समानपरिणामस्य तद्भावोपपत्तेः-तुल्यांशत्वोपपत्तेरिति ॥ (विवरणम्) - (१५-१६) तद्देशनियततया तदतिरिक्तानुभवसिद्धत्वात् इति। तद्देशनियत तया-सत्त्वासत्त्वधर्माकान्तप्रदेशप्रतिबद्धतया तदतिरिक्तानुभवेन-कथञ्चित् सत्त्वा३० सत्त्वातिरिक्तानुभवेन सिद्धत्वात् समानपरिणामलक्षणस्य धर्मिणः ॥ १ 'पर्यायार्थचिन्ताया वृद्धः' इति ङ-पाठः। २ 'तदव्यतिरिक्त०' इति क-पाठः । ३ 'भवने' इति च-पाठः ।
SR No.008405
Book TitleAnekantajay patakakhyam Prakaranam Part 1
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherOriental Research Institute Vadodra
Publication Year1940
Total Pages453
LanguageSanskrit, English
ClassificationBook_Devnagari & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy