________________
अधिकारः] स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम्) तेनानेकान्तवादोऽयमज्ञैः समुपकल्पितः।
न युज्यते वचो वक्तुमिति न्यायानुसारिणः ॥१ अपरस्स्वाह-सदसद्रूपं वस्त्वित्यत्र कथं धर्मधर्मिभावः? । कथं १ च न स्यात् सदसत्त्वयोधर्मत्वे तद्व्यतिरिक्तस्य वस्तुनोऽभावाद् धर्म्यसिद्धेः, तद्धर्मिभावे वा वस्तुत्वेन तव्यतिरिक्तधमानुपपत्तेरिति ?॥ __ अत्रोच्यते-सदसत्त्वयोधर्मत्वे तत्समानपरिणामस्य वस्तुत्वाभिधानस्य धर्मित्वप्रतिज्ञानात्, तस्य च कथञ्चित् सदसत्त्वाभ्यामन्य- १०
(स्वो० व्या०) शब्दाद् वैयधिकरण्यपरिग्रहः । कुतो न दूषणमित्याह-सम्यगित्यादि । सम्यक्न्यायोपपन्नतया जात्यन्तरत्वेन हेतुना भेदाभेदप्रसिद्धितः कारणादिति । येनैतदेवं तेनेत्यादि । तेन-कारणेन अनेकान्तवादोऽयमज्ञैः समुपकल्पितो न युज्यते वचो वक्तुमिति-एवं न्यायानुसारिण इति ॥
अपरस्त्वाह-सदसद्रूपं वस्त्वित्यत्र-उभयरूपे तत्त्वे कथं धर्मधर्मिभावः?। कथमिति क्षेपे । नैवेत्यभिप्रायः । सिद्धान्तवाद्याह-कथं च न स्याद् धर्मधर्मिभाव इति ? । अत्राह-सदसत्वयोरित्यादि । सदसत्त्वयोर्धमत्वे सति तद्व्यतिरिक्तस्य-सदसत्त्वव्यतिरिक्तस्य वस्तुनोऽभावात् अपरस्य, तदुभयमात्रतया तस्येति भावः । धर्म्यसिद्धेः कारणान्न धर्मिधर्मभावः । तद्धर्मिभावे वा २० तयोः-सदसत्त्वयोधर्मित्वे वा वस्तुत्वेन हेतुना, तयोरेव वस्तुत्वादित्यभिप्रायः। किमित्याह-तव्यतिरिक्तधर्मानुपपत्तेः-सदसद्पवस्तुधर्मिव्यतिरिक्तधर्मानुपपत्तेन धर्मधर्मिभाव इति, न सदसत्त्वमात्रे वस्तुनि धर्मिण्यपरधर्मभाव इत्यर्थः ॥ __ अत्रोच्यते-सदसत्त्वयोर्धर्मत्वे सति । किमित्याह तदित्यादि । तत्समानपरिणामस्य तयोः-सदसत्त्वयोस्तुल्यपरिणामस्य । किम्भूतस्येत्याह-वस्तु-२५ स्वाभिधानस्य, एतदभिधेयस्येत्यर्थः । किमित्याह-धर्मित्वप्रतिज्ञानात्
(विवरणम्) (१२) वैयधिकरिण्यपरिग्रह इति । विभिन्नमधिकरणमस्येति व्यधिकरणस्तद्भावो वैयधिकरण्यं तस्य परिग्रहः। सत्त्वासत्त्वयोहि परस्परविरुद्धतया शीतोष्णस्पर्शयोरिव नैकमधिकरणमुपपद्यते । न हि यदेव शीतस्पर्शाधिकरणं तुषारादि तदेवोष्णस्पर्शस्यापि ३० म्यवह्रियते अनुभूयते वा, लोकेन व्यधिकरणत्वेन व्यवस्थितत्वात् तयोः ।
-
१ अनुष्टुप् ।
अनेकान्त. १०