________________
७२
अनेकान्तजयपताकाख्यं प्रकरणम्
[प्रथमः
(मूलम्) येनाकारेण भेदः किं तेनासावेव किं द्वयम् । असत्त्वात् केवलस्येह सतश्च कथितत्वतः॥ यतश्च तत् प्रमाणेन गम्यते युभयात्मकम् । अतोऽपि जातिमात्रं तदनवस्थादिदूषणम् ॥ एवं युभयदोषादिदोषा अपि न दूषणम् । सम्यग् जात्यन्तरत्वेन भेदाभेदप्रसिद्धितः॥
(स्वो० व्या०) .. किम्भूतमित्याह-येनेत्यादि । येन आकारेण भेदः किं तेनासावेव-भेद
एव? किं द्वयं-भेदश्चाभेदश्च किम् ? । इत्येवं विकल्पनमयुक्तमित्याह-असत्त्वात् केवलस्येह भेदस्याभेदस्य वा सतश्च-इतरानुविद्धतया शबलस्य कथितत्वतः कारणादिति ।
यतश्चेत्यादि । यतश्च-यस्माच कारणात् तत्-वस्तु प्रमाणेन-प्रत्यक्षेण १५ गम्यत एव उभयात्मक-धर्मिधर्मात्मकम् , तथाप्रतीतेः । अतोऽपि कारणात
जातिमानं तत् । किमित्याह---अनवस्थादिदूषणम्, सति तस्मिंस्तदनवस्थिततया प्रमाणाप्रवृत्तेः। __ एवं हीत्यादि । एवमेव उभयदोषादिदोषा अपि न दूषणम् । 'आदि'
(विवरणम्) २० (१६-१७) सति तस्मिंस्तदनवस्थिततया प्रमाणाप्रवृत्तेरिति । सति तस्मिन्
अनवस्थादिदूषणे तदनवस्थिततया-वस्तुनोऽनवस्थिततया प्रमाणस्याप्रवृत्तेः । यदि हि अनवस्थादोषो वास्तवः कश्चिद् वस्तुनि स्यात् तदाऽनवस्थितत्वेन तस्य न 'नियतरूपमुभयात्मकवस्तुग्राहकतया प्रमाणं-प्रत्यक्षादि तत्र प्रवर्तते । प्रवर्तते च तत्, अतो
ज्ञायते उभयात्मकमेव वस्त्विति ॥ २५ (१८) उभयदोषादिदोषा अपीति । उभयदोषो नाम संशयदोषः किममू द्रव्यपर्यायौ भिन्नौ 'उतस्विदभिन्नौ, उभयोरप्याकारयोस्तत्र प्रतिभासनात् ? ॥
१ अनुष्टुप् । २ असदुत्तरं जातिः, केवलमसदुत्तरमित्यर्थः। ३-४ अनुष्टुप् । ५ 'दोषोऽपि' इति क-पाठश्चिन्त्यः। ६ “नियमरूप०' इति क-पाठः। ७ 'प्रमाणं प्रति प्रत्यक्षादि' इति ख-पाठः। ८ "किंश्चिदरू(१)द्रव्यः' इति ख-पाठः, च-पाठस्तु “किंश्चिदसूद्रव्य' इति । ९ 'कृतचिदभिसौ.' इति क-पाठः ।