________________
.. अनेकान्तजयपताकाख्यं प्रकरणम् [प्रथम
(मूलम्) करोति, द्रव्यात्मना न करोतीति कुत एकस्य करणाकरणविरोध इति । अथवा खकार्यकर्तृत्वेन करोति, कार्यान्तराकर्तृत्वेन न करोति, ५. अतः केनचिदाकारेण करोति, केनचिन्न करोतीति कोऽत्र विरोधः? ॥
न च खकार्यकर्तृत्वमेव कार्यान्तराकर्तृत्वम् । यदि स्याद् , यथा खकार्य करोति, एवं कार्यान्तरमपि कुर्यात्, कर्तृत्वानन्यत्वादकर्तृत्वस्य, विपर्ययो वा, ततश्चाकारणत्वमिति । स्यादेतत् किं हि नाम कार्यान्तराकर्तृत्वमन्यद् यदाश्रित्यानन्यत्वयुक्त्यनुसारेणाकारणत्वं १. प्रतिपाद्यते,किन्तु स्वकार्यकर्तृत्वमेवैकखभावं कार्यान्तराकर्तृत्वमिति।
(खो० व्या०). एनामेव दर्शयति तथाहीत्यादिना । तथाहि पर्यायात्मना करोति नैमित्तिकेन रूपेण तथापरिणतेः, द्रव्यात्मना न करोति मृदादिरूपेण तथाऽपरिणतेः
इति कुत एकस्य करणाकरणविरोध इति? । नैव । एतत् तावत् कार्यमधि१५ कृत्योक्तम् । अधुना कारणमधिकृत्याह-अथवा खकार्यकर्तृत्वेन करोति, कार्यान्तराकर्तृत्वेन न करोति, अतः केनचिदाकारेण करोति, केनचिन्न करोतीति कोऽत्र विरोधः । न कश्चिदित्यर्थः ॥
न च स्वकार्यकर्तृत्वमेव एकरूपं कार्यान्तराकर्तृत्वम् । कथमित्याहयदि स्यात्-एतदेकमेव, ततः किमित्याह-यथा खकार्यं करोति तत् , एवं २० कार्यान्तरमपि कुर्यात् । कस्मादित्याह-कर्तृत्वानन्यत्वात् अकर्तृत्वस्य नान्यथाऽनन्यत्वमिति भावितमेतत् । विपर्ययो वा-यथा कार्यान्तरं न करोति, एवं स्वकार्यमपि न कुर्यात् अकर्तृत्वानन्यत्वात् कर्तृत्वस्येति भावः । ततश्च एवम्अनेन प्रकारेण अकारणत्वमिति कुर्वतः कारणत्वयोगात् । स्यादेतत् । किं हि नाम कार्यान्तराकर्तृत्वमन्यत् स्वकार्यकर्तृत्वात् यदाश्रित्यान२५ न्यत्वयुक्त्यनुसारेण उक्तलक्षणेन अकारणत्वं प्रतिपाद्यतेऽधिकृतकारणस्य, नैव किश्चिदन्यत्, किन्तु खकार्यकर्तृत्वमेवैकखभावं कार्यान्तरा
(विवरणम् ) . (१३) तथापरिणतेरिति । निमित्ताञ्चक्रचीवरादेः सकाशाद् भवतीति नैमित्तिकं तेन रूपेण कारणेन तथा-घटादिरूपतया परिणतेमदादेः कारणस्य मृत्तिका हि कार्य ३० जनयन्ती नैमित्तिकेन घटादिना रूपेण निवर्तयति; न तु मृदादिरूपेणापि, तस्य त्रिष्व विचलितरूपत्वादिति ।।
१'खकार्ये' इति क-पाठः । २ 'तदाश्रित्या.' इति ऊँ-पाठः । ३ 'प्रतिपद्यते' इति -पाठः ।