________________
ગાથા– ૨૨૦ થી ૨૨૩
3७७
TAGS
((uथा-२२०-२२३))
भुंजंतस्स वि विविहे सच्चित्ताचित्तमिस्सिए दव्वे । संखस्स सेदभावो ण वि सक्कदि किण्हगो कादं।।२२० ।। तह णाणिस्स वि विविहे सच्चित्ताचित्तमिस्सिए दवे । भुजंतस्स वि णाणं ण सक्कमण्णाणदं णेदुं ।।२२१।। जइया स एव संखो सेदसहावं तयं पजहिदूण। गच्छेज्ज किण्हभावं तइया सुक्कत्तणं पजहे ।।२२२।। तह णाणी वि हु जइया णाणसहावं तयं पजहिदूण । अण्णाणेण परिणदो तइया अण्णाणदं गच्छे।।२२३।। भुज्जानस्यापि विविधानि सचित्ताचित्तमिश्रितानि द्रव्याणि। शंखस्य श्वेतभावो नापि शक्यते कृष्णकः कर्तुम् ।।२२०।। तथा ज्ञानिनोऽपिविविधानि सचित्ताचित्तमिश्रितानि द्रव्याणि । भुज्जानस्यापि ज्ञानं न शक्यमज्ञानतां नेतुम् ।।२२१।। यदा स एव शंखः श्वेतस्वभावं तकं प्रहाय । गच्छेत् कृष्णभावं तदा शुक्लत्वं प्रजह्यात्।।२२२।। तथा ज्ञान्यपि खलु यदा ज्ञानस्वभावं तकं प्रहाय । अज्ञानेन परिणतस्तदा अज्ञानतां गच्छेत्।।२२३।।
यथा खलु शंखस्य परद्रव्यमुपभुज्जानस्यापि न परेण श्वेतभावः कृष्णः कर्तुं शक्येत, परस्य परभावत्वनिमित्तत्वानुपपत्तेः, तथा किल ज्ञानिनः परद्रव्यमुपभुञ्जानस्यापि न परेण ज्ञानमज्ञानकर्तुं शक्येत, परस्य परभावत्वनिमित्तत्वानुपपत्तेः। ततो ज्ञानिनः परापराधनिमित्तो नास्ति बन्धः । यथा च यदा स एव शंखः परद्रव्यमुपभुञ्जानोऽनुपभुञ्जानो वा श्वेतभावं प्रहाय स्वयमेव कृष्णभावेन परिणमते तदास्य श्वेतभावः स्वयंकृतः कृष्णभावः स्यात्, तथा यदा स एव ज्ञानी परद्रव्यमुपभुञ्जानोऽनुपभुजानो वा ज्ञानं प्रहाय स्वयमेवाज्ञानेन परिणमते तदास्य ज्ञानं स्वयंकृतमज्ञानं स्यात् । ततो ज्ञानिनो यदि (बन्धः) स्वापराधनिमित्तो बन्धः ।