SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ ગાથા-૩૯ થી ૪૩ ( ॥ - 3८ थी. ४3) PPPyrrrrrrrrrrr अप्पाणमयाणंता मूढा दु परप्पवादिणो केई। जीवं अज्झवसाणं कम्मं च तहा परूवेंति।।३९ ।। अवरे अज्झवसाणेसु तिव्वमंदाणुभागगं जीवं। मण्णंति तहा अवरे णोकम्मं चावि जीवो त्ति।।४।। कम्मस्सुदयं जीवं अवरे कम्माणुभागमिच्छंति। तिव्वत्तणमंदत्तणगुणेहिं जो सो हवदि जीवो।।४।। जीवो कम्मं उहयं दोण्णि वि खलु केइ जीवमिच्छंति। अवरे संजोगेण दु कम्माणं जीवमिच्छंति।।४२।। एवंविहा बहुविहा परमप्पाणं वदंति दुम्मेहा। ते ण परमट्ठवादी णिच्छयवादीहिं णिद्दिट्ठा।।४३।। आत्मानमजानन्तो मूढास्तु परात्मवादिनः केचित्। जीवमध्यवसानं कर्म च तथा प्ररूपयन्ति।।३९ ।। अपरेऽध्यवसानेषु तीव्रमन्दानुभागगं जीवम्। मन्यन्ते तथाऽपरे नोकर्म चापि जीव इति।।४०।। कर्मण उदयं जीवमपरे कर्मानुभागमिच्छन्ति। तीव्रत्वमन्दत्वगुणाभ्यां य: स भवति जीवः ।।४।। जीवकर्मोभयं द्वे अपि खलु केचिज्जीवमिच्छन्ति। अपरे संयोगेन तु कर्मणां जीवमिच्छन्ति।।४२।। एवंविधा बहुविधाः परमात्मानं वदन्ति दुर्मेधसः। ते न परमार्थवादिनः निश्चयवादिभिर्निर्दिष्टाः।।४३।। इह खलु तदसाधारणलक्षणाकलनात्क्लीबत्वेनात्यन्तविमूढाः सन्तस्तात्त्विकमात्मानमजानन्तो बहवो बहुधा परमप्यात्मानमिति प्रलपन्ति। नैसर्गिकरागद्वेषकल्माषितमध्यवसानमेव जीवस्तथाविधाध्यवसानात् अङ्गारस्येव काादतिरिक्तत्वेनान्यस्यानुपलभ्यमानत्वादिति केचित्। अनाद्यनन्तपूर्वापरीभूतावयवैकसंसरणक्रियारूपेण क्रीडत्कर्मैव जीवः कर्मणोऽतिरिक्तत्वेनान्यस्यानुपलभ्यमानत्वादिति केचित्। तीव्रमन्दानुभवभिद्यमानदुरन्तरागरसनिर्भराध्यवसानसन्तान एव जीवस्त
SR No.008307
Book TitleSamaysara Siddhi 3
Original Sutra AuthorN/A
AuthorKanjiswami
PublisherSimandhar Kundkund Kahan Adhyatmik Trust Rajkot
Publication Year2005
Total Pages363
LanguageGujarati
ClassificationBook_Gujarati, Philosophy, Religion, & Spiritual
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy