SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Version 001: remember to check http://www.AtmaDharma.com for updates ૨૪ પ્રવચનસાર [ भगवान श्रीकुं यो हि नाम चैतन्यपरिणामलक्षणेनोपयोगेन यथाशक्ति विशुद्धो भूत्वा वर्तते स खलु प्रतिपदमुद्भिद्यमानविशिष्टविशुद्धिशक्तिरुद्ग्रन्थितासंसारबद्धदृढतरमोहग्रन्थितयात्यन्तनिर्विकारचैतन्यो निरस्तसमस्तज्ञानदर्शनावरणान्तरायतया निःप्रतिघविजृम्भितात्मशक्तिश्च स्वयमेव भूतो ज्ञेयत्वमापन्नानामन्तमवाप्नोति। इह किलात्मा ज्ञानस्वभावो ज्ञानं तु ज्ञेयमात्रं; ततः समस्तज्ञेयान्तर्वर्तिज्ञानस्वभावमात्मानमात्मा शुद्धोपयोगप्रसादादेवासादयति।।१५।। पातनिका। तद्यथा--अथ शुद्धोपयोगलाभानन्तरं केवलज्ञानं भवतीति कथयति। अथवा द्वितीयपातनिका--कुन्दकुन्दाचार्यदेवाः सम्बोधनं कुर्वन्ति, हे शिवकुमारमहाराज, कोऽप्यासन्नभव्यः संक्षेपरुचिः पीठिकाव्याख्यानमेव श्रुत्वात्मकार्यं करोति, अन्यः कोऽपि पुनर्विस्तररुचिः शुद्धोपयोगेन संजातसर्वज्ञस्य ज्ञानसुखादिकं विचार्य पश्चादात्मकार्यं करोतीति व्याख्याति--उवओगविसुद्धो जो उपयोगेन शुद्धोपयोगेन परिणामेन विशुद्धो भूत्वा वर्तते य: विगदावरणंतरायमोहरओ भूदो विगतावरणान्तरायमोहरजोभूतः सन्। कथम्। सयमेव निश्चयेन स्वययेव आदा स पूर्वोक्त आत्मा जादि याति गच्छति। किं। पारं पारमवसानम्। केषाम्। णेयभूदाणं ज्ञेयभूतपदार्थानाम्। सर्वं जानातीत्यर्थः। अतो विस्तर:--यो निर्मोहशुद्धात्म-संवित्तिलक्षणेन शुद्धोपयोगसंज्ञेनागमभाषया पृथक्त्ववितकर्मवीचारप्रथमशुक्लध्यानेन पूर्वं निरवशेषमोहक्षपणं कृत्वा तदनन्तरं रागादिविकल्पोपाधिरहितस्वसंवित्तिलक्षणेनैकत्ववितर्का-वीचारसंज्ञद्वितीयशुक्लध्यानेन क्षीणकषायगुणस्थानेऽन्तर्मुहूर्तकालं स्थित्वा तस्यैवान्त्यसमये ज्ञानदर्शनावरणवीर्यान्तरायाभिधानघातिकर्मत्रयं युगपद्विनाशयति, स जगत्त्रयकालत्रयवर्तिसमस्तवस्तुगतानन्तधर्माणां युगपत्प्रकाशकं केवलज्ञानं प्राप्नोति। ततः स्थितं शुद्धोपयोगात्सर्वज्ञो भवतीति।। १५ ।। ટીકાઃ- જે (આત્મા) ચૈતન્યપરિણામસ્વરૂપ ઉપયોગ વડે યથાશક્તિ વિશુદ્ધ થઈને વર્તે છે તે (मामा), ४ने ५ ५ (-५ ५, ५याय पर्याय ) * विशिष्ट विशुद्धिशति प्रगट थती य छ એવો હોવાને લીધે, અનાદિ સંસારથી બંધાયેલી દઢતર મોહગ્રંથિ છૂટી જવાથી અત્યંત નિર્વિકાર ચૈતન્યવાળો અને સમસ્ત જ્ઞાનાવરણ, દર્શનાવરણ તથા અંતરાય નષ્ટ થવાથી નિર્વિધ્ર ખીલેલી આત્મશક્તિવાળો સ્વયમેવ થયો થકો, શેયપણાને પામેલા (પદાર્થો)ના અંતને પામે છે. અહીં (એમ કહ્યું કે), આત્મા જ્ઞાનસ્વભાવ છે અને જ્ઞાન શેયપ્રમાણ છે; તેથી સમસ્ત શેયોની અંદર પેસનારું ( અર્થાત્ તેમને જાણનારું) જ્ઞાન જેનો સ્વભાવ છે એવા આત્માને આત્મા શુદ્ધોપયોગના પ્રસાદથી જ પ્રાપ્ત કરે છે. * विशिष्ट = पधारे; असाधा२९; पास. Please inform us of any errors on [email protected]
SR No.008294
Book TitlePravachana sara
Original Sutra AuthorKundkundacharya
AuthorHimmatlal Jethalal Shah
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year1980
Total Pages548
LanguageGujarati
ClassificationBook_Gujarati, Spiritual, & Discourse
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy