________________
Version 001: remember to check http://www.AtmaDharma.com for updates
કહાનજૈનશાસ્ત્રમાળા ]
ચરણાનુયોગસૂચક ચૂલિકા
अथ केऽपवादविशेषा इत्युपदिशति
उवयरणं जिणमग्गे लिंगं जहजादरूवमिदि भणिदं । गुरुवयणं पि य विणओ सुत्तज्झयणं च णिद्दिद्वं ।। २२५ ।।
पेच्छदि ण हि इह लोगं निरुपरागनिजचैतन्यनित्योपलब्धिभावनाविनाशकं ख्यातिपूजालाभरूपं प्रेक्षते न च हि स्फुटं इह लोकम् । न च केवलमिह लोकं परं च स्वात्मप्राप्तिरूपं मोक्षं विहाय स्वर्गभोगप्राप्तिरूपं परं च परलोकं च नेच्छति । स कः । समणिंददेसिदो धम्मो श्रमणेन्द्रदेशितो धर्म:, जिनेन्द्रोपदिष्ट इत्यर्थः । धम्मम्हि तम्हि कम्हा धर्मे तस्मिन् कस्मात् वियप्पियं विकल्पितं निर्ग्रन्थलिङ्गाद्वस्त्रप्रावरणेन पृथक्कृतम्। किम् । लिंगं सावरणचिह्नम् । कासां संबन्धि। इत्थीणं स्त्रीणामिति पूर्वपक्षगाथा।। २०।। अथ परिहारमाह
णिच्छयदो इत्थीणं सिद्धी ण हि तेण जम्मणा दिट्ठा ।
तम्हा तप्पडिरूवं वियप्पियं लिंगमित्थीणं ।। २१ ।।
णिच्छयदो इत्थीणं सिद्धी ण हि तेण जम्मणा दिट्ठा निश्चयतः स्त्रीणां नरकादिगतिविलक्षणानन्तसुखादिगुणस्वभावा तेनैव जन्मना सिद्धिर्न दृष्टा, न कथिता । तम्हा तप्पडिरूवं तस्मात्कारणात्तत्प्रतियोग्यं सावरणरूपं वियप्पियं लिंगमित्थीणं निर्ग्रन्थलिङ्गात्पृथक्त्वेन विकल्पितं कथितं लिङ्गं प्रावरणसहितं चिह्नम् । कासाम् । स्त्रीणामिति ।। *२१ ।। मोक्षप्रतिबन्धकं प्रमादबाहुल्यं दर्शयति
अथ स्त्रीणां
पइडीपमादमइया एदासिं वित्ति भासिया पमदा।
तम्हा ताओ पमदा पमादबहुला त्ति णिद्दिट्ठा ।। २२ ।।
૪૧૧
पइडीपमादमइया प्रकृत्या स्वभावेन प्रमादेन निर्वृत्ता प्रमादमयी । का कर्त्री भवति । एदासिं वित्ति। एतासां स्त्रीणां वृत्तिः परिणतिः । भासिया पमदा तत एव नाममालायां प्रमदाः प्रमदासंज्ञा भाषिताः स्त्रियः। तम्हा ताओ पमदा यत एव प्रमदासंज्ञास्ताः स्त्रियः, तस्मात्तत एव पमादबहुला ति णिद्दिट्ठा निःप्रमादपरमात्मतत्त्वभावनाविनाशकप्रमादबहुला इति निर्दिष्टाः ।।२२।। अथ तासां मोहादिबाहुल्यं दर्शयति
संति धुवं पमदाणं मोहपदोसा भयं दुगुंछा य। चित्ते चित्ता माया तम्हा तासिं ण णिव्वाणं ।। २३ ।।
હવે, અપવાદના કયા વિશેષો છે તે કહે છેઃ
જન્મ્યા પ્રમાણે રૂપ ભાખ્યું ઉપકરણ જિનમાર્ગમાં, ગુરુવચન ને સૂત્રાધ્યયન, વળી વિનય પણ ઉપકરણમાં. ૨૨૫.
Please inform us of any errors on rajesh@AtmaDharma.com