________________
Version 001: remember to check http://www.AtmaDharma.com for updates
૧૨૦
[ भगवानश्री ६६
यदायमात्मा
साधीभूतां
द्वेषरूपामिन्द्रियार्थानुरागरूपां चाशुभोपयोगभूमिकामतिक्रम्य देवगुरुयतिपूजादानशीलोपवासप्रीतिलक्षणं धर्मानुरागमङ्गीकरोति तदेन्द्रियसुखस्य साधनीभूतां शुभोपयोगभूमिकामधिरूढोऽभिलप्येत।।६९।।
दुःखस्य
પ્રવચનસાર
भूतम्। अविच्छिदं मणुवदेवपदिभावं यथा पूर्वमर्हदवस्थायां मनुजदेवेन्द्रादयः समवशरणे समागत्य नमस्कुर्वन्ति तेन प्रभुत्वं भवति, तदतिक्रान्तत्वादतिक्रान्तमनुजदेवपतिभावम् । पुनश्च किंविशिष्टम्। अपुणब्भावणिबद्धं द्रव्यक्षेत्रादिपञ्चप्रकारभवाद्विलक्षणः शुद्धबुद्धैकस्वभावनिजात्मो - पलम्भलक्षणो योऽसौ मोक्षस्तस्याधीनत्वादपुनर्भावनिबद्धमिति भावः।। * ४ ।। एवं नमस्कार - मुख्यत्वेन गाथाद्वयं गतम् । इति गाथाष्टकेन पञ्चमस्थलं ज्ञातव्यम् । एवमष्टादशगाथाभिः स्थलपञ्चकेन सुखप्रपञ्चनामान्तराधिकारो गतः । इति पूर्वोक्तप्रकारेण ‘एस सुरासुर' इत्यादि चतुर्दशगाथाभिः पीठिका गता, तदनन्तरं सप्तगाथाभिः सामान्यसर्वज्ञसिद्धिः, तदनन्तरं त्रयस्त्रिंशद्गाथाभिः ज्ञानप्रपञ्चः तदनन्तरमष्टादशगाथाभिः सुखप्रपञ्च इति समुदायेन द्वासप्ततिगाथाभिरन्तराधिकारचतुष्टयेन शुद्धोपयोगाधिकारः समाप्तः । । इत ऊर्द्ध पञ्चविंशति-गाथापर्यन्तं ज्ञानकण्डिकाचतुष्टयाभिधानोऽधिकारः प्रारभ्यते । तत्र पञ्चविंशतिगाथामध्ये प्रथमं तावच्छुभाशुभविषये मूढत्वनिराकरणार्थं 'देवदजदिगुरु' इत्यादि दशगाथापर्यन्तं प्रथमज्ञानकण्डिका कथ्यते। तदनन्तरमाप्तात्मस्वरूपपरिज्ञानविषये मूढत्वनिराकरणार्थं ' चत्ता पावारंभ' इत्यादि सप्तगाथापर्यन्तं द्वितीयज्ञानकण्डिका, अथानन्तरं द्रव्यगुणपर्यायपरिज्ञानविषये मूढत्वनिराकरणार्थं ‘दव्वादीएसु' इत्यादि गाथाषट्कपर्यन्तं तृतीयज्ञानकण्डिका। तदनन्तरं स्वपरतत्त्वपरिज्ञानविषये मूढत्वनिराकरणार्थं ' णाणप्पगं' इत्यादि गाथाद्वयेन चतुर्थज्ञान- कण्डिका । इति ज्ञानकण्डिकाचतुष्टयाभिधानाधिकारे समुदायपातनिका। अथेदानीं प्रथमज्ञानकण्डिकायां स्वतन्त्रव्याख्यानेन गाथाचतुष्टयं, तदनन्तरं पुण्यं जीवस्य विषयतृष्णामुत्पादयतीति कथनरूपेण गाथाचतुष्टयं, तदनन्तरमुपसंहाररूपेण गाथाद्वयं इति स्थलत्रयपर्यन्तं क्रमेण व्याख्यानं क्रियते । तद्यथा-अथ यद्यपि पूर्वं गाथाषट्केनेन्द्रियसुखस्वरूपं भणितं तथापि पुनरपि तदेव विस्तरेण कथयन् सन् तत्साधकं शुभोपयोगं प्रतिपादयति, अथवा द्वितीयपातनिका - पीठिकायां यच्छुभोपयोगस्वरूपं सूचितं तस्येदानीमिन्द्रियसुखविशेष - विचारप्रस्तावे तत्साधकत्वेन विशेषविवरणं करोतिदेवदजदिगुरुपूजासु चेव दाणम्मि वा सुसीलेसु देवतायतिगुरुपूजासु चैव दाने वा सुशीलेषु उववासादिसु रत्तो तथैवोपवासादिषु च रक्त आसक्तः अप्पा जीवः सुहोवओगप्पगो शुभयोगात्मक भण्यते इति । तथा हि-देवता निर्दोषिपरमात्मा, इन्द्रियजयेन शुद्धात्मस्वरूपप्रयनपरो यतिः,
ટીકા:- જ્યારે આ આત્મા દુઃખના સાધનભૂત એવી દ્વેષરૂપ તથા ઇન્દ્રિયવિષયના અનુરાગરૂપ અશુભોપયોગભૂમિકાને ઓળંગી જઈને, દેવ-ગુરુ-યતિની પૂજા, દાન, શીલ અને ઉપવાસાદિકની પ્રીતિસ્વરૂપ ધર્માનુરાગને અંગીકૃત કરે છે, ત્યારે તે ઇન્દ્રિયસુખના સાધનભૂત શુભોપયોગભૂમિકામાં આરૂઢ કહેવાય છે.
Please inform us of any errors on rajesh@AtmaDharma.com