________________
૧૭૪
સમક્ષસુક્ત
५५६.
एयम्मि गुणट्ठाणे, विसरिससमयट्टिएहिं जीवेहिं । पुवमपत्ता जम्हा, होति अपुव्वा हु परिणामा ||११॥ एतस्मिन् गुणस्थाने, विसदृशसमयस्थितै वैः । पूर्वमप्राप्ता यस्मात् भवन्ति अपूर्वा हि परिणामाः ।।११।। तारिसपरिणामट्ठियजीवा, हु जिणेहिं गलियतिमिरेहिं । मोहस्सऽपुव्वकरणा, खवणुवसमणुज्जया भणिया ॥१२॥ तादृशपरिणामस्थितजीवाः, हि जिनैर्गलिततिमिरैः । मोहस्यापूर्वकरणाः, क्षपणोपशमनोद्यताः भणिताः ।।१२।। होति अणियट्टिणो ते, पडिसमयं जेसिमेक्कपरिणामा । विमलयरझाणहुयवह-सिहाहिं णिद्दड्ढकम्मवणा ॥१३॥ भवन्ति अनिवर्तिनस्ते, प्रतिसमयं येषामेकपरिणामाः। विमलतरध्यानहुतवह-शिखाभिर्निर्दग्धकर्मवनाः ।।१३।। कोसुंभो जिह राओ, अभंतरदो य सुहुमरत्तो य । एवं सुहुमसराओ, सुहुमकसाओ त्ति णायव्वो ॥१४॥ कौसुम्भः यथा रागः, अभ्यन्तरतः च सूक्ष्मरक्तः च । एवं सूक्ष्मसरागः, सूक्ष्मकषाय इति ज्ञातव्यः ।।१४।। सकदकफलजलं वा, सरए सरवाणियं व णिम्मलयं । सयलोवसंतमोहो, उवसंतकसायओ होदि ॥१५॥ कतकफलयुतजलं वा, शरदि सरःपानीयम् इव निर्मलकम् । सकलोपशान्तमोहः, उपशान्तकषायतो भवति ।।१५।।
५५९.
५६०.
५६१.
णिस्सेसखीणमोहो, फलिहामलभायणुदय-समचित्तो । खीणकसाओ भण्णइ, णिग्गंथो वीयराएहिं ॥१६॥ निःशेषक्षीणमोहः, स्फटिकामल-भाजनोदक-समचित्तः । क्षीणकषायो भण्यते, निर्ग्रन्थो वीतरागैः ।।१६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org