________________
: 60:
Jinabhadra Gani's
[The first
Trans.-40-41-42. Gautama! You do not know the (real) meaning of these sentences of the Veda. For, you believe that none but the assemblage of (the particles of) knowledge, after having arisen from elements, in the way in which intoxication arises, from the sources of spirituous liquors, is a soul consisting of knowledge only-the soul which has sprung up from the collection of elements. It again- perishes after the elements (have perished ), and that there is no designation in the previous birth to the effect that it was named as such and such in the former birth (existence), and hence, it is said that the soul does not go from one bhava, to another existence. (1588-1589-1590)
टीका-गौतम! इत्यामन्त्रणम् , वेदपदानां श्रुतिवाक्यानाममीषां "विज्ञानधन एवेतेभ्यः" इत्यादीनां चेतसि वर्तमानानामर्थ यथावस्थितं वं न जानासि नावबुध्यसे । किमिति ? अत आह--यद् यस्मात् त्वमात्माभिप्रायेणैवंभूतमिहार्थं मन्यसे विकल्पयसीति संबन्धः । कथं भूतम् ? इत्याह"विण्णाणघणो चिय ति" पृथिव्यादिभूतानां विज्ञानलवसमुदायो विज्ञानधन: पृथिव्यादिविज्ञानांशानां पिण्ड इत्यर्थः, अवधारणं त्वात्मवादिपरिकल्पितस्य भूतसमुदायातिरिक्तस्य ज्ञान-दर्शनादिगुणाश्रयस्यात्मनो निरासार्थम् । भूतेभ्यः पृथिव्यादिभ्यः समुंदितेभ्यो न तु व्यस्तेभ्यः, ज्ञानस्य तत्समुदायपरिणामाङ्गीकारादिति भावः, मद्याङ्गेषु मद्यकारणेषु धातक्यादिषु मदभाव इव; कथंभूतो विज्ञानधनः ? इत्याह-"भूयसमुदउब्भूओ विनाणमेत्तमाय ति" भूतसमुदयादुद्भूतस्तदैव जातो न तु परभवात् कश्चिदायातो विज्ञानमात्ररूप आत्मेत्यर्थः, समुत्थायोत्पद्य ततस्तान्येव पृथिव्यादीनि भूतानि विनाशमश्नु वानान्यनुलक्षीकृत्य भूयः पुनरपि स विज्ञानघनो विज्ञानमात्ररूप आत्मा विनश्यति, न त्वात्मवादिनामिवान्यभवं याति । अत एव न प्रेत्यभवे परभवे संज्ञास्ति, यत् पूर्वभवे नारकादिजन्मन्यभिधानमासीत् तत् परभवे नास्ति, यदुत-अमुको नारको देवो वा भूत्वेदानी मनुष्यः संवृत इत्यादि, नारकादेः प्रागेव सर्वनाशं नष्टत्वादिति भावः । किमिह वाक्ये तात्पर्यवृत्त्या प्रोक्तं भवति? इत्याह-"जं भणियमित्यादि " सर्वथात्मनः समुत्पद्य विनष्टत्वाद् न भवादू
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org