________________
Vada] Gañadbaravāda
:239: account of patata. Again sky etc., could also never be pro. duced on account of their nityata. Hence, O Saumya ! nothing could be produced as a substance (but) everything should be taken according to the surrounding characteristics. (1728-1731)
टीका-इह कार्य घटादिकं विवक्षया किमपि जातं जायते, किश्चिदजातम् , किञ्चिजाताजातम् , किश्चिजायमानम् , किञ्चितु सर्वथा न जायत इति । अथ यथाक्रममुदाहरण:नि--" स्वीत्यादि " रूपितया घटो जातो जायते, मृदूपतायाः प्रागपि भावात् , तद्रूपतया जात एव घटो जायते इत्यर्थः । संस्थानतयाऽऽकारविशेषेण पुनः स एवाजातो जायते, मृत्पिण्डाद्यवस्थायामाकारस्यासंभवात् । मृद्रूपतया, आकारविशेषेण चेति द्वाभ्यामपि प्रकाराभ्यां जाताजातो जायते, तदनन्तरभूतत्वाद् घटस्य । तथा, अतीता-ऽनागत कालयोर्विनष्टानुत्पन्नत्वात् क्रियानुपपत्तेर्वर्तमानसमय एव क्रियासद्भावात् नत्समयं वर्तमानसमयं जायमानो जायते । किश्चित्तु सर्वथा जाताऽजातदिप्रकारैर्न जायते । किं पुनस्तत् ? इत्याह-“पुन्वकओ उ इत्यादि" पूर्वकृतस्तु पूर्वनिष्पन्नो घटो घटतया जाता-जातादिविकल्पानां मध्यादेकेनापि प्रकारेण न जायते, पूर्वमेव जातत्वात् । किं घटतयैव न जायते ? । न, इत्याह-"परपजाएहिं ति" तथा, पटादिगतैः परपर्यायैश्च घटो न जायते, स्वपर्यायाणां पूर्वमेव जातत्वात् , परपर्यायैश्च कदाचित् कस्याप्यभवनात् । स्व-परपर्यायैः पूर्वकृतघटो न जायते, जाता-जातपट-खरविषाणवदिति भावः।
तथा, जायमानोऽपि वर्तमानक्रियाक्षणसमये पटतया घटो न जायते, पररूपतया कस्याप्यभवनात् । किं पूर्वकृतो घट एवेत्थं न जायते, आहोस्विदन्यदपि किश्चिद् न जायते ? इत्याह-"वोमाईत्यादि" न केवलं पूर्वकृतो घटो घटतया न जायते, तथा व्योमादि च तेन कारणेन सौम्य ! सर्वथा जातादिभिः सर्वैरपि प्रकारैर्न जायते, येन किम् ? इत्याह-येन नित्यजातं सर्वदाऽवस्थितम् , हेतुद्वारेण विशेषणमिदम् , नित्यजातत्वाद् न जायत इत्यर्थः। उक्तस्यैवार्थस्योपसंहारव्याजेन तात्पर्यमुपदर्शयन्नाह-'इयेत्यादि" इत्युक्तप्रकारेण सर्वमपि घट-पट-व्योमादिकं वस्तु द्रव्यरूपेण " न जायते"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org