________________
3 132
Jinabhadra Gani's [The second कर्मास्तित्वसंशयः । एषां हि वेदपदानामयमर्थस्तव चेतसि विपरिवर्तते--पुरुष आत्मा, एवकारोऽवधारणे, स च पुरुषातिरिक्तस्य कर्म-प्रकृती-श्वरादेः सत्ताव्यवच्छेदार्थः, इदं सर्व-प्रत्यक्षं वर्तमानं चेतनाचेतनस्वरूपम् , "मिं" इति वाक्यालङ्कारे, यद् भूतम्-अतीतम् , यच भाव्यं-भविष्यद् मुक्तिसंसारावपि स एवेत्यर्थः। उतामृतत्वस्येशान इति । उतशब्दोऽप्यर्थे । अपिशब्दश्च समुच्चये। अमृतत्वस्य च अमरणभावस्य मोक्षस्येशानः प्रभुरित्यर्थः । यदन्नेनातिरोहतीति। चशब्दस्य लुप्तस्य दर्शनाद् यच्चानेन-आहारेण, अतिरोहति-अतिशयेन वृद्धिमुपैति । यदेजति–चलति, पश्वादि । यद् नैति-न चलति पर्वतादि । यद् दूरे मेर्वादि । यदु अन्तिके-उशब्दोऽवधारणे, यदन्तिके समीपे तदपि पुरुष एवेत्यर्थः । यदन्तः-मध्ये, अस्य-चेतनाचेतनस्य सर्वस्य; यदेव सर्वस्याप्यस्य बाह्यतः, तत् सर्व पुरुष एवेति । अतस्तव्यतिरिक्तस्य कर्मणः कल सत्ता दुःश्रद्धेयेति ते मतिः । तथा, "विज्ञानधन एवैतेभ्यो भूतेभ्यः" इत्यादीन्यपि वेदपदानि कर्माभावप्रतिपादकानि मन्यसे त्वम् , अत्राप्येवकारस्य कर्मादिसत्ताव्यवच्छेदपरत्वात् ।
तदेवमेतेषां " पुरुष एवेदम्" इत्यादीनां "विज्ञानधन"आदीनां च वेदपदानां नायमर्थो यो भवतश्चेतसि वर्तते, किन्तु तेषां पदानामयं भावार्थ:--" पुरुष एवेदं सर्वम्' इत्यादीनि तावत् पुरुषस्तुतिपराणि जात्यादिमदत्यागहेतोरद्वैतभावनाप्रतिपादकानि च वर्तते, न तु कर्मसत्ताव्यवच्छेदकानि । वेदवाक्यानि हि कानिचिद् विधिवादपराणि, कान्यप्यर्थवादप्रधानानि, अपराणि त्वनुवादपराणि । तत्र "अग्निहोत्रं जुहुयात् स्वर्गकामः" इत्यादीनि विधिवादपराणि । अर्थवादस्तु द्विधा-स्तुत्यर्थवादः, निन्दार्थवादश्च । तत्र “पुरुष एवेदं सर्वम्" इत्यादिका स्तुत्यर्थवादः तथा तत्र “स सर्वविद् यस्यषा महिपा भुवि दिव्ये बह्मपुरे ह्येष व्योम्नि आत्मासु प्रतिष्ठितस्तमक्षरं वेदयते यस्तु स सर्वज्ञः सर्ववित् सर्वमेवाविवेश" इति; तथा, “एकया पूर्णयाहूत्या सर्वान् कामानवामोति" इत्यादिकश्च सर्वोऽपि स्तुत्यर्थवादा। " एकया पूर्णया" इत्यादिविधिनादोऽपि कसाद् न भवति? इति चेत् । उच्यते-शेषस्यामिहोत्राद्यानुष्ठानस्य वैयर्थ्यप्रसङ्गादिति । " एषः वः प्रथमो यशो योऽमिष्टोमा योऽनेनानिष्ठाऽन्येन यजते स गर्तमभ्यपत" अत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org