________________
:191
Tāda )
Gañadharavāda सर्वहेतुनिराशंसं भावानां जन्म वर्ण्यते । स्वभाववादिभिस्ते हि नाहुः स्वमपि कारणम् ॥१॥ राजीवकण्टकादीनां वचिव्यं कः करोति हि ?। मयुरचन्द्रिकादिर्वा विचित्रः केन निर्मितः ? ॥२॥ कादाचित्कं यदत्रास्ति निःशेषं तदहेतुकम् ।
यथा कण्टकतैक्ष्ण्यादि तथा चैते सुखादयः॥३॥ तदेतद् यथा त्वं मन्यसे गौतम ! तथाऽभ्युपगम्यमानं बहुदोषमेव; तथाहि --यो देहादीनां कर्ता स्वभावोऽभ्युपगम्यते, स किं वस्तुविशेषो वा, अकारणता वा, वस्तुधर्मो वा, ? इति त्रयी गतिः। तत्र न तावद् वस्तुविशेषः, तद्ग्राहकप्रमाणाभावात् । अप्राणकस्याभ्युपगमे कर्मापि किं नाभ्युपगम्यते, तस्थापि त्वदभिप्रयेणाप्रमाणकत्वात् ।। किञ्च, वस्तुविशेषः स स्वभावो मूर्तो वा स्यात् अमूर्तो वा १ । यदि मूर्तः, तहिं स्वभाव इति नामान्तरेण कमैवोक्तं स्यात् । अथामूर्तः, तर्हि नासौ कस्यापि कर्ता, अमूर्तत्वात् , निरुपकरणत्वाच, व्योमवदिति । न च मूर्तस्य शरीरादेः कार्यस्यामूर्त कारणमनुरूपम् , आकाशवदिति । अथाकारणता स्वभाव इष्यते, तत्राप्यभिदध्महे-नन्वेवं सत्यकारणं शरीराधुत्पद्यत इत्ययमर्थः स्यात् , तथा च सति कारणाभावस्य समानत्वाद युगपदेवाशेषंदेहोत्पादप्रसङ्गः । अपि च, इत्थं महेतुकमाकस्मिकं शरीरायुत्पनत इत्यभ्युपगतं भवेत् । एतश्चायुक्त मेव, यतो यदहेतुकमास्मिकं न तदादिमत्प्रतिनियताकारम् , यथाऽभ्रादिविकारः, आदिमत्प्रतिनियताकारं च शरीरादि। तस्माद् नाकस्मिकम् , किन्तु कर्महेतुकमेव । प्रतिनियताकारत्वादेव चोपकरणसहितकतृनिर्वर्त्यमेव शरिरादिकं घटादिवदिति गम्यत एव । न च गर्भाधवस्थासु कर्मणोऽन्यदुपकरणं घटत इत्युक्तमेव । अथ वस्तुनो धर्मः स्वभावोऽभ्युपगम्यते । तथाप्यसौ यद्यात्मधर्मो विज्ञानादिवत् , तहिं न शरीरादिकारणमसौ, अमूर्तत्वात् , आकाशवत् , इत्यभिहितमेव । अथ मूर्तवस्तुधोंड सौ, तहिं सिद्धसाध्यता, कर्मणोऽपि पुद्गलास्तिकायपर्याय विशेषत्वेनास्माभिरप्युपगतत्वादिति ।
अपि च, " पुरुष एवेदं सर्वम्" इत्यादिवेदवाक्यश्रवणा भवका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org