________________
Vide]
Ganadheravada difference in (i.e., speciality of) an object, a genus, a subs. tance, an action, or an attribute ? Your doubt is ill-based; for, it is not proper to draw a sweeping conclusion regarding the dharma of an object that it is only this or that it is certainly not this. For, each and every thing ( sarva) is certainly all things ( sarvamaya ) from the stand-point of its own modifications and those of the rest, and that sarva is a-sarvamaya too, from the stand-point of separateness. Therefore, it is proper (to believe ) that a substance has a generality and speciality, according to the stand-point taken and that its nature is varied from the view-point of its modifications. (1600-1603)
टीका-तम्मादेषां पूर्वोक्तानां वेदपदानां यथा मया व्याख्यातोऽथस्तथा त्वं न वेत्सि, तेन जीवे संशयं करोषि । अथवा, सर्वेषामप्यशेषवेदपदानामथं त्वं न जानासि, यस्मात् सर्वेष्वपि वेदपदेषु विषये तवैवंभूतः संशयोऽस्तीति संबन्धः । कथंभूत ? इत्याह-" अत्थो किं होज सुईत्यादि," किमेतेषां वेदपदानामर्थः श्रुतिः शब्दो भवेत् , यथा मेरी-पटह-ढकादीनां भन्दस्य शब्द एवार्थः ?; अथवा यद् घटादिशब्दे समुच्चारिते तदभिधेयार्थविषयं विज्ञानं भवद् दृश्यते, तत् तेषामर्थः ?; किंवा घर्टशब्दे समुत्कीर्तिते "पृथुबुध्नोदराद्याकारवान् घटलक्षणोऽर्थोऽनेनोक्तः, न तु पटादिः" इत्येवं यो वस्तुभेदः प्रतीयते स एषामर्थ ?; यदिवा, किं जातिरमीलामर्थः, यथा गोशब्दे समुच्चारिते गोजातिरवसीयते ?; यदिवा, किं द्रव्यमेषामर्थः, यथा दण्डीत्यादिषु दण्डादिमद् द्रव्यम् ?; किंवा धावतीत्यादीनामिव धावनादिक्रियाऽमीषामर्थः; अथवा किं शुक्लादीनामिव शुक्लादिगुण एतेषामर्थः ? इति । अयं च संशयस्तवायुक्तः, यस्मात् " अयमेव, नैव वाऽयम्" इत्येवं कस्यापि वस्तुनो धर्मोऽवधारयितुं न युक्तः। शब्दोऽपि वस्तुविशेष एव, ततः "एवंभूतस्यैवार्थस्यायमभिधायकः, नैव वेत्थंभूतस्यार्थस्यायं प्रतिपादकः" इत्येवमेतद्धर्मस्याप्यवधारणमयुक्तमेव । कुतः १ इत्याह-" सव्वं चियेत्यादि" यस्मात् सर्वमपि वाच्यवाचकादिकं वस्तु नियतं निश्चितं स्व-परपर्यायः सर्वात्मकमेव सामान्यविवक्षयेत्यर्थः । तथा, सर्वमसर्वमयमप्यस्ति विविक्तरूपं सर्वतो व्यावृत्तम् । कया? इत्याह-विवक्षया, कैवलस्वपर्यायापेक्षयेत्यर्थः, 10
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org