________________
कनककुशलगणिकृता ॥विशाललोचनदलस्तुति-अवचूरिः॥
[मूल] विशाललोचनदलं प्रोद्यद्दन्तांशुकेसरम्। प्रातर्वीरजिनेन्द्रस्य मुखपद्मं पुनातु वः॥१॥
(अवचूरि)विशाल. व्याख्या - वीरजिनेन्द्रस्य मुखपद्मं प्रातः पुनातु इत्यन्वयः। प्रातरित्यव्ययं प्रभातकालवाचकम्। प्रभाते वीरजिनेन्द्रस्य = वर्द्धमानतीर्थङ्करस्य जिनानामिन्द्रो जिनेन्द्रो, वीरश्चासौ जिनेन्द्रश्च वीरजिनेन्द्रः। तस्य मुखपद्मम् = वदनकमलं मुखमेव पद्मं मुखपद्मं कर्मधारयः। कर्तृकं पदम्। वो = युष्माकम्, पुनातु = पवित्रयतु। किं लक्षणं मुखपद्मम्? विशाललोचनदलम् = विस्तीर्णनयनपत्रम्। विशाले च ते[लोचने] च विशाललोचनः(ने)। विशाललोचने एवं(व) दले यत्र तत्। पुनः किं लक्षणं मुखपद्मम्? प्रोद्यद्दन्तांशुकेसरं प्रोल्लसद्रदनकान्तिकिञ्जल्कम्। किञ्जल्कं केसरमित्यभिधानकोशवचनात्। (अभिधानचिन्तामणि ११६६) प्रोद्यन्तश्च ते दन्ताश्च प्रोद्यदन्ताः। प्रोद्यद्दन्तानामंशवः प्रोद्यद्दन्तांशवः। प्रोद्याद्दन्तांशव एव केसराणि यत्र तदिति प्रथमश्लोकाक्षरार्थः॥१॥ मूल] येषामभिषेककर्म कृत्वा मत्ता हर्षभरात्सुखं सुरेन्द्राः।
तृणमपि गणयन्ति नैव नाकं प्रातः सन्तु शिवाय ते जिनेन्द्राः॥२॥(औपच्छन्दसिक)
(अवचूरि) - येषां. व्याख्या- प्रातस्ते जिनेन्द्राः शिवाय सन्तु इत्यन्वयः। प्रातः = प्रभातकाले ते इति यच्छब्दापेक्षया जिनेन्द्रा: = तीर्थङकराः, जिनानामिन्द्रा जिनेन्द्राः शिवाय = कल्याणाय मोक्षाय वा सन्त = भवन्त यच्छब्दस्तच्छब्दमपेक्षते इति न्यायात्। ते के? येषाम् अभिषेककर्म कृत्वा सुरेन्द्राः नाकम् = सुखं तृणमपि नैव गु(ग)णयन्ति इत्यन्वयः। येषां जिनेन्द्राणामिन्द्राः सुरेन्द्राः अभिषेककर्म = स्नात्रकृत्यमभिषेकस्य कर्माभिषेककर्म पुनः द्वितीयाज्ञापनाय तदिति कृत्वा = विधाय। सुरेन्द्राः देवेन्द्राः सुराणामिन्द्राः सुरेन्द्राः। नाकं नाके = स्वर्गे भवं नाकं स(स्वर्गसम्बन्धीत्यर्थः। सुखं शर्म कर्मपदम्, तृणमपि तृणतुल्यमपि नैव गणयन्ति = नैव मन्यन्ते द्व} इत्यर्थः। किं लक्षणाः सुरेन्द्राः? मत्ताः = पुष्टदेहाः कस्मात्? हर्षभरात् = प्रमोदातिशयात। भरोऽतिशयभारयोरित्यनेकार्थवचनात। हर्षस्य भरो हर्षभरः। औपच्छन्दसिकमिदं वत्तं, तल्लक्षणं चेदम
षड्विषमेऽष्टौ समे कलास्ताश्च समे स्युर्नो निरन्तराः। न समात्र पराश्रिता कला वैतालीयेऽन्ते रलौ गुरुः। पर्यन्ते यौ तथैव शेषं त्वौपच्छन्दसिकं सुधीभिरुक्तम्। (वृत्तरत्नाकर २.१२, १३)
इति द्वितीयवृत्ताक्षरार्थः॥२॥ [मूल] कलङ्कनिर्मुक्तममुक्तपूर्णतं कुतर्कराहुग्रसनं सदोदयम्।
अपूर्वचन्द्रं जिनचन्द्रभाषितं दिनागमे नौमि बुधैर्नमस्कृतम्॥३॥(वंशस्थ)
(अवचूरि) - कलं. व्याख्या - जिनचन्द्रभाषितमपूर्वचन्द्रं दिनागम(मे) नौमीत्यन्वयः। जिनचन्द्रभाषितम् = तीर्थङ्करप्रणीतं सिद्धान्तमित्यर्थः। जिनेषु चन्द्रा जिनचन्द्राः, जिनचन्द्रौ(न्द्र)र्भाषितं जिनचन्द्रभाषितं तत् कर्मपदम्। तदेवापूर्वचन्द्रं नवीनरजनीरमणं अपूर्वश्चासौ चन्द्रश्चाऽपूर्वचन्द्रस्तम्। दिनागमे = दिवसप्रारम्भे = प्रभाते इत्यर्थे(र्थः)। दिनस्यागमो दिनागमस्तस्मिन्। नौमि = स्तौमि अहमिति शेषणुस्तुतो विनिधातुः(शेषः नु = स्तुतौ इति धातुः) किं विशिष्टं जिनचन्द्रभाषितमपूर्वचन्द्रम्? कलङ्कनिर्मुक्तम् = मालिन्य हेतुलाञ्छनरहितम्। कलङ्केन निर्मुक्तं कलङ्कनिर्मुक्तं तत्। चन्द्रस्तु कलङ्कवानस्ति। अत एवापूर्वचन्द्रमित्य(त्यु)क्तम्। पुनः किं विशिष्टं जिनचन्द्रभाषितमपूर्वचन्द्रम्? अत्य(मु) क्तपूर्णतम् =