________________
श्रुतदीप-१
अत्यक्तसम्पूर्णतं, न मुक्ताऽमुक्ता, पूर्णस्य भावः पूर्णता, अमुक्ता पूर्णता येन तत्। पुनर्द्वितीय(या) ज्ञापनाय तदिति जीवादिपदार्थैः सम्पूर्णमित्यर्थः। चन्द्रस्तु पूर्णतां जहाति यः।।
खिण खंडतु खिण वड्ढलउ खिण अद्धउ खिलीह? दंइव न दीद्धा चंदनइ साव सरीखा दीह॥१॥
इति वचनात्। पुनः किं लक्षणं जिनचन्द्रभाषितमपूर्वचन्द्रम्? कुतर्कराहुग्रसनं कुविचारविधुतुन्दगिलनम्। कुत्सिताश्च ते न कश्चित्(तर्काश्च) कुतर्कोः (कुतर्काः) कुत्सितास्तर्का येषां ते कुतर्काः कुवादिन इति वा। कुतर्का एव राहवः कुतर्कराहवः कर्मधारयः। कुतर्कराहूणां ग्रसनं यत्र तत् [कु]तर्कराहुासनम् तत्। चन्द्रस्तु राहुणा ग्रस्यते जिनचन्द्रभाषितचन्द्रस्तु कुतर्कराहुमेव ग्रसति। पुनः किं [विशिष्टं जिनचन्द्रभाषितमपूर्वचन्द्रम्? सदोदयं सदा उदयो यस्य तत् सदोदयं तत्, जिनचन्द्रभाषितचन्द्रोऽर्थतः शाश्वत इत्यर्थः।
धम्मो वड्ढउ सासओ विजयओ।( आवश्यकसूत्र) इति वचनात्। चन्द्रस्तु दिवसे पाडु(पाण्डु)पलास(श)कल्पो भवति। एभिः प्रकारैरपूर्वचन्द्रं जिनचन्द्रभाषितमुक्तमतः। किं लक्षणं जिनचन्द्रभाषितमपूर्वचन्द्रम्? नमस्कृतम् = प्रणतम्। नमः कृतः(कृतम्) नमस्कृतं तत् नम इत्यव्ययपदं च न[ति]वाचकम्। कैर्बुधैः = पण्डितैः। इदं वंशस्थवृत्तम्। तल्लक्षणं वदन्ति “वंशस्थमिदं जतौ जराविति” तृतीयवृत्ताक्षरार्थः॥३॥
इति विशाललोचनदलम्। महन्ता देवालिख(ख्य)त।
इति विशाललोचनदली(ला)वचूरिः। श्रीमत्तपागच्छनायकश्रीविजयसेनसूरिशिष्यभुजिष्यणुना पं. कनककुशलगणिना विरचिता। संवत् १६६६ वर्षे कार्तेक शुदि ३ मङ्गलवारे ग्रन्थाग्रं श्लोका ४२ अक्षराणि ११ समाप्त।