________________
संस्कृत कृति
[मूल] एकपर्यायाभिधेयमपि वस्तु च मन्यते। कार्यं स्वकीयं कुर्वाणमेवम्भूतनयो ध्रुवम्॥१७॥
यदि कार्यमकुर्वाणोऽपीष्यते तत्तया स चेत्। तदा पटेऽपि न घटव्यपदेशः किमिष्यते?॥१८॥ टीका] एवम्भूतनामा नयः एकपर्यायाभिधेयमपि= एक एव यः पर्यायः शब्दः स एकपर्याय एकशब्दः
तेनाभिधेयमपि = वस्तुवाच्यं च = पुनः विद्यमानं भावरूपमपि ध्रुवं = निश्चयेन स्वकीयम् = आत्मीयं कार्यं = निजार्थक्रियां कुर्वाणं पश्यति तदैव तद्वस्तु वस्तुवन्मन्यते नान्यदा। अर्थक्रियाकारी सदिति जिनोपदेशो वर्तते अतो यश्चाऽर्थक्रियाकारी तदेव वस्त्वित्यर्थः॥१७॥ यदि स = पदार्थस्तदा = तस्मिन् काले कार्यमकुर्वाणोऽपि = स्वार्थक्रियामकुर्वन्नपि चेत्तत्तया = वस्तुतया इष्यते अभ्युपगम्यते भवान् तर्हि पटेऽपि घटव्यपदेशो = घटशब्दवाच्यता कथं नेष्यते? = कस्मान्न इच्छाविषयीक्रियते? किमत्रापराधः? यथा स्वार्थक्रियामकुर्वाणो घटो घटत्वव्यपदेशभाग् भवति तथा घटक्रिया...ऽववत्(मकुर्वन्) पटोऽपि घटो भवतु, स्वकार्यकरणाभाव[स्य] उभयत्रापि
समानत्वादित्यर्थः॥१८॥ [टबार्थ] [शब्दार्थ] एक पर्याये अभिधेय केहेवातुं एवं पण वस्तु वली माने छे कार्य प्रते पोताना प्रते करता
एवा प्रते एवंभूत नामा नय जे ते निश्चये॥१७॥ जो कार्य प्रते न करतो एवो ग्रहण करे तो ते माटे तेम ते जो तारे पटमां पण न हि घटनो व्यपदेश स्यु
चाहिये छ।।१८॥ भावार्थ:- हवे एवंभूत नय सातमो। ते एक पर्यायवाचक वस्तुने माने छे, पोताना कार्य प्रते करतो एवा माने छ।
जेम घट-पटादि जलधारण-देहादिआछादन प्रमुख क्रिया प्रते करता एवा माने छे। जो पोतानी क्रियाने न करता प्रते माने तो पटमां घटनो व्यपदेश किम न माने? अर्थात् घटमां पटनी अने पटमां घटनी
अतिव्याप्ति आवे। माटे स्वक्रियाने करता एवाने ज माने। ए एवंभूतनय सातमो ए भावार्थ ॥१७॥१८॥ मूल] यथोत्तरविशुद्धाः स्युर्नयाः सप्ताप्यमी तथा। एकैकः स्याच्छतं भेदास्ततः सप्तशताप्यमी॥१९॥
अथैवम्भूतसमभिरूढयोः शब्द एव चेत्। अन्तर्भावस्तदा पञ्चनयपञ्चशतीभिदः॥२०॥
द्रव्यास्तिकपर्यायास्तिकयोरन्तर्भवन्त्यमी। आदावादिचतुष्टयमन्त्ये चान्त्यास्त्रयस्ततः॥२१॥ [टीका] अमी = साक्षादुक्तपूर्वाः सप्तापि =सप्तसङ्ख्याका अपिः समुच्चयार्थः नयाः यथोत्तरविशुद्धाः यथा
यथा उत्तराः उपर्युपरि वर्तन्ते तथा तथा विशुद्धा ये ते यथोत्तरविशुद्धाः स्युः =भवन्ति। तथा एकैकः= एकश्च एकैक: नयः शतं = शतप्रमाणं भेदः = प्रकार: स्याद= भवति ततो अमी नयाः सप्तशतसङ्ख्याका अपि भवन्ति इत्यर्थः॥१९॥ अथ चेत्= यदि एवम्भूतसमभिरूढयोः एवम्भूतश्च समभिरूढश्च तौ तथा तयोर्द्वयोः शब्दनयेऽन्तर्भावो भवेत् तदा एवेत्यवधारणात् पञ्च नया भवन्ति तदा पञ्चशतीभिदः = पञ्चानां शतानां समाहारः पञ्चशती भिद्यन्ते आभिस्ता भिदः पञ्चशती च ता भिदश्चेति तथा नयानां भवन्तीत्यर्थः॥२०॥ अमी सप्तापि नयाः द्रव्यास्तिकपर्यायास्तिकयोरन्तर्भवन्ति। द्रव्यमेवास्ति तथा प्ररूपयन् द्रव्यास्तिक