________________
विसेसचुण्णि
[मासकप्पपगयं जोगिदिएहिं न तहा, अहिगारो निज्जिएहिं न हु ताई। कलुसेहिँ विरहियाई, दुक्खसईबीयभूयाइं ॥१२८७॥
"इंदियकसाय०" ["जोगिंदिएहिं०"] गाहा । यद्यपि सर्वसाधुभिरिन्द्रियकषाययोगा विविधैः प्रकारैनियमिता जिता इत्यर्थः । तथापि जिनकल्पं प्रतिपत्तुकामेन पुनरपि तेषां जयः कार्यः । तथा जयं करोति यथा योगानां दुःप्रणिधानस्योत्पत्तिरेव न भवति । इन्द्रियाणामपि तथा जयः कर्तव्यः यथा इष्टानिष्टविषयेषु रागद्वेषानुपपत्तिर्भवति । कषायाणामपि तथा जयः कर्तव्यो यथा कषायाणां तद्वस्तु प्रतीत्य यथोत्पत्तिर्न भवति ।
स्यान्मतिः-किमालम्बनं कृत्वा योगेन्द्रियकषायाणां जयः कार्यः ? अत उच्यते-तेषां जयस्तज्जयस्तज्जयेन सिद्धिः तज्जयसिद्धिः । तज्जयेन अखिलासु विमला वा जिनकल्पगमनाय सिद्धिर्भवत्येवं गणयता मन्यमानेन वा जनमानेन वा, इन्द्रियकषाययोगानां जयः कार्यः । अथ पुनरिन्द्रियकषाययोगानां जयोपदेशे येषां जये कृते शेषाणामपि जयः कृत एव भवति तेषां जये सुष्ठुतरां प्रयत्नः कार्य इत्युपदेशप्ररूपणार्थमिदमुच्यते - "जेण०" पच्छद्धं । येनेति येन प्रकारेण कषायैविना न तानि योगेन्द्रियाणि संसारिणां दुष्टाणां जीवानि भवन्तीति वाक्यशेषः ।
स्यान्मतिः-एवमिष्टार्थान् प्राप्य न किञ्चनकर इन्द्रियजयः । अतस्तदाशंकानिवृत्त्यर्थमिदमुच्यते -
जेण तु आयाणेहिं, न विणा कलुसाण होइ उप्पत्ती । तो तज्जयं ववसिमो, कलुसजयं चेव इच्छंता ॥१२८८॥
"जेण उ आयाणेहिं०" गाहा । येनेति येन प्रकारेण आदानानीन्द्रियान्युच्यन्ते, ग्रहः आदाने धातुः, यस्मात्तानीन्द्रियाणि शब्दादीन् विषयान् गृहन्तीत्यत: इन्द्रियाण्यादानानि इत्युच्यन्ते । तान्यादानानि न विना कषायानामुत्पत्तिर्भवति । कथं पुनरिन्द्रियाणां न विना कषायैरुत्पत्तिर्भवति? उच्यते-मायालोभौ रागः, क्रोधमानौ द्वेषः, तौ रागद्वेषौ इष्टानिष्टविषयं प्राप्य संजायेते, ते च कषायाः चत्वारः । इत्येवमिन्द्रियैर्विना कषायाणामुत्पत्तिर्न भवति । अनेन कारणेन वयं कषायाणां जयमिच्छन्त इन्द्रियजयमिच्छामः ।
स्यान्मतिः-के गुणा भावनाभावितस्य ? अत इदमुच्यते -
खेयविणोदो साहसजओ य लहुया तवो असंगो अ। सद्धाजणणं च परे, कालन्नाणं च नऽन्नत्तो ॥१२८९॥
१. जोगिदिएहिं इति गाथाप्रतीकमत्र भाव्यम् ? २. इत्येवमिन्द्रियाणां न विना कषायै रूत्पत्तिर्भवति अ ब ।