________________
[१२] परमाणुपरममहत्त्वान्तोऽस्य वशीकारः॥१-४०॥ क्षीणवृत्तेरभिजातस्येव मणेग्रहीतृग्रहणग्राह्येषु तत्स्थतदानता समापत्तिः ॥ १-४१॥ तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का
समापत्तिः ॥ १-४२ ॥ स्मृतिपरिशुद्धौ वरूपशून्येवार्थमात्रनिर्भासा
निर्वितर्का ॥१-४३॥ एतयैव सविचारा निर्विचारा च सूक्ष्मविषया
व्याख्याता ॥ १-४४॥ सूक्ष्मविषयत्वं चालिङ्गापर्यवसानम् ॥ १-४५ ॥
‘ता एव सबीजः समाधिः॥ १-४६ ॥ भाष्यम्-ताः चतस्रः समापत्तयो बहिर्वस्तुवीजा इति समाधिरपि सवीजः। तत्र स्थूलेऽर्थे सवितर्को निर्वितर्कः सूक्ष्मेऽर्थे सविचारो निर्विचारः स चतुर्थोपसंख्यातः समाधिरिति ॥
(य०)-पायोपरक्तानुपरक्तस्थूलसूक्ष्मद्रव्यभावनारूपाणामेतासां शुक्लध्यानजीवानुभूतानां चित्तैकाठयकारिणीनामुपशान्त