________________
[१३] मोहापेक्षया सबीजत्वम् , क्षीणमोहापेक्षया तु निर्बीजत्वमपि स्यात् इति वाहतसिद्धान्तरहस्यम् ॥ निर्विचारवैशारोऽध्यात्मप्रसादः॥ १-४७॥ ऋतम्भरा तत्र प्रज्ञा ॥ १-४८॥
सा पुन:श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात्
॥१-४९॥ भाष्यम्-श्रुतमागमविज्ञानं तत् सामान्यविषयं, नद्यागमेन शक्यो विशेषोऽभिधातुम् , कस्मात् ? न हि विशेषण कृतसंकेतः शब्द इति । तथाऽनुमानं सामान्यविषयमेव, यत्र प्राप्तिस्तत्र गतिः, यत्राप्राप्तिस्तत्र न भवति गतिरित्युक्तम् अनुमानेन च सामान्येनोपसंहारः। तस्माच्छ्रतानुमानविपयो न विशेषः कश्चिदस्ति इति । न चास्य सूक्ष्मव्यवहितविप्रकटस्य वस्तुनो लोकप्रत्यक्षेण ग्रहणम्, न चास्य विशेषस्याप्रमाणकस्याभावोऽस्तीति समाधिप्रज्ञानिह्य एव स विशेषो भवति भूतसूक्ष्मगतो वा पुरुषगतो वा । तस्माच्छ्रतानुमानप्रज्ञाभ्यामन्यविपया सा प्रज्ञा विशेषार्थत्वादिति ॥
(य०)-संध्येव दिनरात्रिभ्यां केवेलाञ्च श्रुतात्पृथग। बुधैरनुभवो दृष्टः केवलारुणोदयः ॥१॥” इत्यस्मदुक्तलक्षणलक्षिता
१ज्ञानसार अष्टक २६ श्लो. १।२"केवलश्रुतयोः" इत्यपि.