________________
[१०] तस्य वाचकः प्रणवः॥ १-२७॥ तजपस्तदर्थभावनम् ॥ १-२८॥ ततःप्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च।१-२९६ व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकवानवस्थितत्वानि चित्त
विक्षेपास्तेऽन्तरायाः ॥ १-३०॥ दुःखदौर्मनस्याङ्गमेजयत्व श्वासप्रश्वासा विक्षेप
सहभुवः ॥१-३१ ।। तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ॥ १-३२॥ मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनम् ॥ १-३३ ॥
भाष्यम्-तत्र सर्वप्राणिषु सुखसंभोगापन्नेषु मैत्री भावयेत् । दुःखितेषु करुणां, पुण्यात्मकेषु मुदितां, अपुण्यशीलेधूपेक्षाम् । . (य०)-अस्मदाचार्यास्तु-"परहितचिन्ता मैत्री परदुःखविनाशिनी तथा करुणा । परसुखतुष्टिमुदिता परदोषोपेक्षणमुपेक्षा ॥१॥” इति लक्षयित्वा " उपकारिस्वजनेतरसामान्यगता