________________
[ ] दुनिवारम् । केवलसत्त्वातिशयवतः पुरुषविशेषस्य कल्पने च केवलरजस्तमोऽतिशयवतोरपि कल्पनापत्तिः । कथं चैवमात्मत्वावच्छेदेनानादिसंसारसंबन्धनिमित्ततोपपत्तिः ? | ईश्वरातिरिक्तात्मत्वेन तथात्वकल्पने व गौरवम् । केवलसत्त्वोत्कर्षवदृष्टपुरुषकल्पने च नित्यज्ञानाद्याश्रयो नैयायिकाद्यभिमत एव स किं न कल्प्यते ?, तस्मात्सकलकर्मनिर्मुक्त सिद्ध एव भवतीश्वरत्वं युक्तम् , उपासनौपयिककेवलज्ञानादिगुणानां तत्रैव संभवात् । अनादिशुद्धत्वश्रद्धापि प्रवाहापेक्षया तत्रैव पूराया । यदाहुः श्रीहरिभद्राचार्या:-"एसो अणाइमं चिय सुद्धो य तओ अणाइसुद्धो ति। जुत्तो य पवाहेणं ण अन्नहा सुद्धया सम्मं ॥ १॥" (अनादिविशिका. १२) सिद्धानामनेकत्वात् " एक ईश्वरः” इति श्रद्धा न पूर्यत इति चेत्, न, सिद्धेतरवृत्त्यत्यन्ताभावप्रतियोग्यतिशयत्वरूपस्यैकत्वस्य सिद्धानामनेकत्वेऽप्यवाधात्सङ्ख्यारूपस्यैकत्वस्य चाप्रयोजकत्वात् । गम्यतां वा समष्ट्यपेक्षया तदपि, स्वरूपास्तित्वसारश्यास्तित्वयोरविनिर्भागवृत्तित्वस्य सार्वत्रिकत्वात् । जगत्कर्तुः सर्वथैकस्य पुरुषस्थाभ्युपगमे च जगत्कारणस्य शरीरस्यापि बलादापत्तिः, कार्यत्वे सकर्तृकत्वस्येव शरीरजन्यत्वस्यापि व्याप्तेरभिधातुं शक्यत्वादिति । तस्य च सिद्धस्य भगवत ईश्वरस्यानुग्रहोऽपि योगिनोऽपुनर्बन्धकाचवस्थोचितसदाचारलाभ एव, न त्वनुजिघृक्षारूपस्तस्या रागरूपत्वात्, तस्य च द्वेषसहचरितत्वात् , रागद्वेषवतश्चतरवदनाराध्यत्वादिति संक्षेपः ।। प्रकृतम्---