________________
[ ७ ]
च तत्सद्भावात्केवली नोसंज्ञीत्युच्यते । तदिदमुक्तं योगविन्दौ" असंप्रज्ञात एषोऽपि समाधिर्गीयते परैः । निरुद्धाशेषवृत्त्यादि1 तत्स्वरूपानुवेधतः ||१|| धर्ममेघोऽमृतात्मा च भवशत्रुः शिवोदयः । सत्त्वानन्दः परश्चेति योज्योऽत्रैवार्थयोगतः ||२|| ” (४२०-२१) इत्यादि । संस्कारशेषत्वं चात्र भवोपग्राहिकर्माशरूप संस्कारापेक्षया व्याख्येयम् मतिज्ञानभेदस्य संस्कारस्य तदा मूलत एव विनाशात् । इत्यस्मन्म तनिष्कर्ष इति दिक् । प्रकृतं प्रस्तूयते -
9
1
स खल्वयं द्विविधः, उपायप्रत्ययो भवप्रत्ययश्च । तत्रोपायप्रत्ययो योगिनां भवति ॥ भवप्रत्ययो विदेहप्रकृतिलयानाम् ॥ १-१६ ॥
भाष्यम् - विदेहानां देवानां भवप्रत्ययः । ते हि स्वसंस्कारमात्रो पगतेन चित्तेन कैवल्यपद मिवानुभवन्तः स्वसंस्कारविपाकं तथाजातीयकमतिवाहयन्ति । तथा प्रकृतिलयाः साधिकारे चेतसि प्रकृतिलीने कैवल्यपदमिवानुभवन्ति, यावन्न पुनरावर्ततेऽधिकारवशाच्चित्तमिति ॥
(०) उपशान्तमोहत्वेनोक्तानां लवसप्तमानां ज्ञानयोगरूपसमाधिमधिकृत्येदं प्रवृत्तम् । एत [ दस्म ] न्मतम् ॥ श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक
इतरेषाम् ॥ १२० ॥
१' मात्रोपयोगेन ' इत्यपि,