________________
समाधिरसंप्रज्ञातः। तस्य परं वैराग्यमुपायः । सालम्बनो सभ्यासस्तत्साधनाय न कल्पत इति विरामप्रत्ययो निर्वस्तुक आलम्बनीक्रियते, स चार्थशून्यः । तदभ्यासपूर्व चित्तं निरालम्बनमभावप्राप्तमिव भवतीत्येष निवाजः समाधिरसंप्रज्ञातः।। - (य०) द्विविधोऽप्ययं अध्यात्मभावनाध्यानसमतावृत्तिक्षयभे- . देन पञ्चधोक्तस्य योगस्य पञ्चमभेदेऽवतरति । वृत्तिक्षयो यात्मनः . . कर्मसंयोगयोग्यतापगमः, स्थूलसूक्ष्मा ह्यात्मनश्चेष्टा वृत्तयः, तासां. मूलहेतुः कर्मसंयोगयोग्यता, सा चाकरणनियमेन प्रन्थिभेदे उत्कृ-. टमोहनीयबन्धव्यवच्छेदेन तत्तद्गुणस्थाने तत्तत्प्रकृत्यात्यन्तिकवन्धव्यवच्छेदस्य हेतुना क्रमशो निवर्तते । तत्र पृथक्त्ववितर्कसविचारैकत्ववितर्काविचाराख्यशुक्लध्यानभेदद्वये संप्रज्ञातः समाधिवृत्त्य
नां सम्यग्ज्ञानात् । तदुक्तम्-" समाधिरेष एवान्यैः संप्रज्ञासोऽभिधीयते । सम्यक्प्रकर्षरूपेण वृत्त्यर्थज्ञानतस्तथा ।। १॥” (४१८ यो. बि. ) निर्वितर्कविचादानन्दास्मितानि सस्तु पर्यायविनिर्मुक्तशुद्धद्रव्यध्यानाभिप्रायेण व्याख्येय(य:),यन्नयमालम्ब्यो . कम्-" का अरइ के आणंदे ? इत्थं पि अग्गहे चरे" इत्यादि । क्षपकश्रेणिपरिसमाप्तौ केवलज्ञानलाभस्त्वसंप्रज्ञातः समाधिः, भावमनोवृत्तीनां प्राह्यग्रहणाकारशालिनीनामवग्रहादिक्रमेण तत्र सम्य
परिज्ञानाभावात् । अत एव भावमनसा संज्ञाऽभावाद् द्रव्यमनसा. - १ प्राचारङ्ग १-३-३ पृ. ११ का अरतिः क आनन्दः ? भत्रापि अग्रहश्चरेत् । . . . . . . . .