SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ [ ५ ] तत् परं पुरुषख्यातेर्गुणवैतृष्ण्यम् ॥ १-१६ ॥ भाष्यम् — दृष्टानुश्रविकविषयदोषदर्शी विरक्तः पुरुषः दर्शनाभ्यासात्तच्छुद्धिप्रविवेकाप्यायितबुद्धिर्गुणेभ्यो व्यक्ताव्यक्तधर्मकेभ्यो विरक्त इति । तद्द्द्वयं वैराग्यम् । तत्र यदुत्तरं तज्ज्ञानप्रसादमात्रम् । तस्योदये प्रत्युदितख्यातिरेवं मन्यते - प्राप्तं प्रापणीयम्, क्षीणाः चेतव्याः क्लेशाः, छिन्नः श्लिष्टपर्वा भवसंक्रमः, यस्याविच्छेदाज्जनित्वा म्रियते मृत्वा च जायत इति । ज्ञानस्यैव पराकाष्ठा वैराग्यम् । एतस्यैव हि नान्तरीयकं कैवल्यमिति । ( य०) विषय दोषदर्शनजनितमापातधर्मसन्यासलक्षणं प्रथमम्, सतत्त्वचिन्तया विषयौदासीन्येन जनितं द्वितीया पूर्वकरणभावितात्त्विकधर्मसन्यासलक्षणं द्वितीयं वैराग्यम्, यत्र क्षायोपशमिका धर्मा अपि क्षीयन्ते क्षायिकाश्चोत्पद्यन्ते इत्यस्माकं सिद्धान्तः || वितर्कविचारानन्दास्मितारूपानुगमा Sarkoding त्संप्रज्ञातः ॥ १-१७ ॥ श्रथासंप्रज्ञातः समाधिः किमुपायः किंस्वभावो वा इति. विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः।१-१८। भाष्यम्- सर्ववृत्तिप्रत्यस्तमये संस्कारशेषो निरोधश्चित्तस्य १ ' पुरुषदर्शनाभ्या' इत्यपि ।
SR No.007442
Book TitleYogdarshan
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi
PublisherSukhlal Sanghavi
Publication Year
Total Pages232
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy