________________
वृत्तयः पञ्चतय्यः क्लिष्टालिष्टाः ॥ १-५ ॥ प्रमाणविपर्ययविकल्पनिद्रास्मृतयः ॥ १-६॥ तंत्र प्रत्यक्षानुमानागमाः प्रमाणानि ॥१-७॥ विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् ॥ १-८ । शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥१-६॥ अभावप्रत्ययालम्बना वृत्तिनिद्रा ॥१-१०॥ अनुभूतविषयासंप्रमोषः स्मृतिः ॥१-११॥
भाष्यम्-कि प्रत्ययस्य चित्तं स्मरति आहोस्विद्विषयस्य इति । ग्राह्योपरक्तः प्रत्ययो ग्राह्यग्रहणोभयाकारनिर्भासः तथाजातीयकं संस्कारमारभते । स संस्कारः स्वव्यञ्जकाञ्जनः तदाकारामेव ग्राह्यग्रहणोभयात्मिका स्मृति जनयति । तत्र ग्रहणाकारपूर्वा बुद्धिः, ग्राह्याकारपूर्वा स्मृतिः। सा च द्वयी-भावितस्मर्तव्या चाभावितस्मर्तव्या च । स्वमे भावितस्मर्तव्या। जाग्रत्समये त्वभावितस्मर्तव्येति । सर्वाः स्मृतयः प्रमाणविपर्ययविकल्पनिद्रास्मृतीनामनुभवात्प्रभवन्ति । सर्वाचैता वृत्तयः सुखदुःखमोहात्मिकाः, सुखदुःखमोहाश्च क्लेशेषु व्याख्ययाः। सुखानुशयी रागः । दुःखानुशयी द्वेषः । मोहा
१ एतत्पदं मुद्रितपुस्तके न दृश्यते