SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ [२] प्रख्यारूपं हि चित्तसत्त्वं रजस्तमोभ्यां संसृष्टमैश्वर्यविषयप्रियं भवतिातदेव तमसानुविद्धमधर्माज्ञानावैराग्यानैश्वर्योपगं भवति। तदेव प्रक्षीणमोहावरणं सर्वतः प्रद्योतमानमनुविद्धं रजोमात्रया धर्मज्ञानवैराग्यश्वर्योपगं भवति । तदेव रजोलेशमलापेतं स्वरूपप्रतिष्ठं सत्पुरुषान्यताख्यातिमात्रं धर्ममेघध्यानोपगं भवति । तत् परं प्रसङ्ख्यानमित्याचक्षते ध्यायिनः । चितिशक्तिरपरिणामिन्यप्रतिसंक्रमा दर्शितविषया शुद्धा चानन्ता च; सत्त्वगुणात्मिका चेयमतो विपरीता विवेकख्यातिः इत्यतस्तस्यां विरक्तं चित्तं तामपि ख्याति निरुणद्धि । तदवस्थं संस्कारोपगं भवति । स निर्वीजः समाधिः । न तत्र किञ्चित संप्रज्ञायत इत्यसंप्रज्ञातः। (य०) सर्वशब्दामहणेऽप्यर्थात्तल्लाभादव्याप्तिः संप्रज्ञाव इति " क्लिष्टचित्तवृत्तिनिरोधो योगः” इति लक्षणं सम्यग् , यद्वा " समितिगुप्तिसाधारणं धर्मव्यापारत्वमेव योगत्वम् ". इति त्वस्माकमाचार्याः । तदुक्तम्-" मुक्खेण जोयणाओ जोगो सव्वो वि धम्मवावारो" [ योगविंशिका. गा० १] तदा द्रष्टुः स्वरूपेऽवस्थानम् ॥ १-३॥ वृत्तिलारूप्यमितरत्रं ॥ १-४॥ .१ सत्त्वपुरुपान्यताख्यातिमात्रं चित्रं धर्ममेघपर्यन्त । २ विवेकख्यातेः बोधकमेवत्पदम् ।। .
SR No.007442
Book TitleYogdarshan
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi
PublisherSukhlal Sanghavi
Publication Year
Total Pages232
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy