________________
॥ अहम् ॥ न्यायाम्भोनिधि-श्रीमद्विजयानन्दसूरिभ्यो नमः श्रीमद्-व्यासर्षिप्रणीतभाष्यांशसहितं
भगवत्पतञ्जलिमुनिविरचितं
पातञ्जलयोगदर्शनम्।
(न्यायविशारद-न्यायाचार्य-श्रीमद्यशोविजयवाचकवरविहितया जैनमतानुसारिण्या लेशव्याख्ययोपवर्धितम् )
-HOke--- ऐ नमः ॥ ऐन्द्रवृन्दनतं नत्वा वीरं सूत्रानुसारतः ।
वक्ष्ये पातजलस्थार्थ साक्षेपं प्रक्रियाश्रयम् ॥१॥ अथ योगानुशासनम् ॥१-१॥ तस्य (संप्रज्ञातासंप्रज्ञातरूपद्विविधयोगस्य ) लक्षणाभिधित्सयेदं सूत्रं प्रववृतेयोगश्चित्तवृत्तिनिरोधः ॥ १-२॥
भाष्यम्-सर्वशब्दाग्रहणात् संप्रज्ञातोऽपि योग इत्याख्यायते । चित्तं हि प्रख्याप्रवृत्तिस्थितिशीलत्वात् त्रिगुणम्।